________________ जिह्वाया थूत्कृतम् / देवता तथैव स्थिता / प्रातरागतैर्लोकैदृष्ट्वाऽरिष्टमिति कृत्वा शान्तिकपूजादिकं कर्तुमारब्धम् / तथापि जिह्वाया असंवरणे द्यूतकृदाह-यदि मे दीनारशतं ददत पूजाये, तदाऽहं / प्रपूज्य शान्तिं कुर्वे / पश्चाद् वस्त्रादि च मे देयम् / ततो लोकैर्दीनारशतं दत्तम् / रात्रौ तेन देवीम-3 वने गत्वा स्तुति-पूजादिकं किञ्चित् किञ्चित् कृतम् / तथापि जिह्वां न गोपयति / तदा तेनोक्तम्“गोपय जिह्वां, चेन्न गोपयसि तदा पुरा थूत्कृतमेवाऽस्ति, अधुना विष्टां क्षेप्यामि" / इत्युक्त्वा | यावता विष्टायै चलति तावता देव्या भीतया गोपिता जिह्वा / प्रातर्लोकाः समागताः / जिहां गोपितां दृष्ट्वा हृष्टाः / मङ्गलं जातम्"। __ “एवं काले याति अन्यदा द्यूतकृता रमतां बहुहारणे देव्याः पूजादिकं कृतम् / परं सा किमपि न ददाति / ततो धृतो लोष्टमुत्पाख्योत्थितः, 'चेन्न दत्से तर्हि भङ्ख्यामि भवतीम्' इति वदन् / ततो भीतया देव्या तस्यैषा पुस्तिकाऽर्पिता / दीनारपञ्चशत्या विक्रेयेति चोक्तम् / ततः स पुस्तिकां गृहीत्वा नगरान्तर्गो विक्रीणन् लोकमूल्यं पृष्ट आह 500 पञ्चशतानि दीनाराणाम् / ततो लोकैर्हसितः स ममाष्टे आगतः। मयाऽनुकम्पया किञ्चिदर्पयित्वा गृहीता सैषा पुस्तिकेति"। | ततः सिद्धदत्वेन सा पुस्तिका च्छोटयित्वाऽवाचि / 'प्राप्तव्यमर्थं लभते मनुष्यः' इति पदं तस्य ||4/ 1 स्मे च वर्तमाना। सिद्ध०५।२।१६ / इत्यनेन पुरायोगे भूतकालेऽर्थे वर्तमाना। 2 रममाणेन / 3 द्यूतकारः। 25A4%%