SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सिद्धदत्त- रुचितम् / ततो निरन्तरमेतत्पदं पठन् नगरे निसं भ्रमति। ततो लोकैस्तस्य 'प्राप्तव्यमर्थिक' इति नाम कथा. दत्तम् / एवं नगरे प्रसिद्धो जातः। // 15 // ___ इतश्च नगरेऽरिमर्दनराजः पुत्री त्रैलोक्यसुन्दरी बहुच्छात्रमध्यगता उपाध्यायस्य पार्थेऽधीते / / सा चाऽधीतसकलकला प्रासयौवना वरार्थिनी चिन्तयामास-तातो महर्द्धिकं महाराजपुत्रं वरं मे || दास्यति / मम तु कलावानेवाऽभिरुचितः, किं महर्द्धिकत्वेन ! / यतः|| विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन / खदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते // 1 // | विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः / / 6 विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः 24 | इति विचिन्य सा त्रैलोक्यसुन्दरी तन्नगरवासिमतिसागरप्रधानसुतवीरसेनस्य खेन सार्द्धमेको-18 पाध्यायपार्थेऽधीयमानस्य रूप-सौभाग्य-कला-कौशल-विद्यादि दृष्ट्वा तस्मिन्नध्युपपन्ना सती / एकदा रहसि तमुवाच-यत्त्वया मम पाणिग्रहणं कार्यमिति / ततस्तेन कुमारेणोक्तम्-'आवयोः क दयोगः!, यतो भवती राज्ञः पुत्री, अहं तु तस्य सेवकः, इत्येषा वार्ता न वाच्येति' / ततस्तयोक्तम्- 15 // |'चेन्मदीयं वचः करिष्यसि तदा तवापि भव्यं भविष्यति, नो चेन्न' / ततस्तेन कुमारेण भीतेन 1 आसक्ता।
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy