________________ तम्हा एयस्ताणणं, मुणिणावि होऊण / खंतो दतो संतो, एयस्साराहगो नरो होइ। जो पुण विवरीयगुणो, एयस्स विराहगो सो उ // 212 // तम्हा एयस्सारा-हगेण एगंतसंतचित्तेणं / निम्मलसीलगुणणं, मुणिणा गिहिणा वि होयव्वं // 213 // जो होइ दुद्दचित्तो, एयस्साराहगोवि होऊण / तस्स न सिज्झइ एयं, किंतु अवायं कुणइ नूणं // 214 // अर्थतस्य य आराधको भवति तत्स्वरूपमाह-क्षान्त:-क्षमायुक्तः दान्तो जितेन्द्रियः शान्तो जितमानसविकार ईदृशो नरो-मनुष्य एतस्य सिद्धचक्रस्य आराधको भवति, यः पुनः विपरीता गुणा यस्मिन् स विपरीतगुणः कामक्रोधादियुक्त इत्यर्थः, स तु पुमान् एतस्य विराधको भवति // 212 // तस्मात्कारणात् 15 एतस्याराधकेन मुनिना-साधुना गृहेण-गृहस्थेनापि च ईदृशेन भवितव्यं, कीदृशेन ? इत्येतदाह-एकान्तेननिश्चयेन शान्तं-विकाररहितं चित्तं यस्य स तेन, पुनर्निर्मलः शीलगुणो यस्य स तेन // 213 // यः पुमान् एतस्याराधकोऽपि भूत्वा दुष्टं चित्तं यस्य स दुष्टचित्तो भवति, तस्य पुंस एतत् श्रीसिद्धचक्रं २१२-"खंतो दंतो संतो" इत्यत्र वृत्त्यनुप्रासः। २१३-"गुणेणं मुणिणा गिहिणा" इत्यत्र वृत्त्यनुप्रासः। २१४-अत्रतदाराधकस्यापि ससिद्धिप्राप्त्यभावे प्रत्युत अपायभागित्वे तदीयदुष्टचित्तत्वस्थ कारणतया प्रतिपादनात् कालिगमलङ्कारः /