________________ दिसिवालखित्तवालेहिं सेविअं धरणिमंडलपइटें / पूयंताण नराणं, नूणं पूरइ मणइट्ठं // 206 // एयं च सिद्धचक्कं, कहिअं विज्जाणुवायपरमत्थं / नाएण जेण सहसा सिझंति महंतसिद्धिओ॥ 207 // एयं च विमलधवलं, जो झायइ सुक्कजाणजोएण / तवसंजमेण जुत्तो, सो पावइ निज्जरं विउलं // 208 // | इत्यादि लिखेत, तथा चतसृषु दिक्षु क्रमेण कुमुदां 1 जन 2 वामन 3 पुष्पदत्तान् 4 लिखेत् , तथा माणभद्रादींश्चतुरो वीरानपि एवं दिक्षु लिखेत् , 'दिसिवाल'त्ति दिक्पालेर्दशभिरिन्द्राग्नियमनैऋतवरुणवायुकुबेरेशानबमनागनामभिः क्षेत्रपालेन च प्रसिद्धेन सेवितं पुनर्द्धरणीमण्डलप्रतिष्ठं-पृथ्वीपीठे स्थितमित्यर्थः, तत्र दशसु दिक्पालेषु अष्टौ दिक्पालान् पूर्वादिक्रमेण लिखेत्, ॐ इन्द्राय नम इत्यादि, ऊवंतु ॐ ब्रह्मणेनमः अधः ॐ नागाय नमः, निजदक्षिणनागकोणे ॐ क्षेत्रपालाय नमः इति लिखेत् , अस्य लिखने सम्यग् विधिश्चास्याम्नायविन्मुखाद्यथालिखितचक्राद्वाऽवसेयः // 205 // 206 // एतच्च सिद्धचक्रं विद्यानुवादो-दशमं पूर्व तस्य परमार्थरुप रहस्यभूतमित्यर्थः, येन ज्ञातेन सहसा -सद्यो महत्यः सिद्धयो--अणिमाद्याः सिद्धयन्ति // 207 // एतच्च विमलं निर्मलम् अत एव धवलं- उज्ज्वलं श्रीसिद्धचक्रं यः पुमान् शुक्लध्यानयोगेन--उज्ज्वलध्यानव्यापारेण ध्यायति स