________________ सिरिसिरि // 41 // वालकहा SSSSS तं विज्जादविसासण-सुरसासणदेविसेविअदुपासं / मूलगहं कंठणिहिं, चउपडिहारं च चउवीरं // 205 // तत्सम्बन्धिनां 'पयाणं'त्ति मन्त्रपदानां ध्यानं यूयं कुरुत, एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत् , ॐ ही विमलस्वामिने नमः इत्यादि लिखेदित्यर्थः // 204 // अथ तमित्यादि गाथायुगलस्य व्याख्या, तत् सिद्धचक्रं कतृ पूजयतां नराणां नूनं-निश्चितं मनइष्ट-मनसोऽभीष्टं पूरयति, इति द्वितीयगाथान्त्यपादद्वयेन सम्बन्धः, किंविशिष्टं तत् ? विद्यादेव्यो रोहिण्याद्याः षोडश, शासनसुरा गोमुखयक्षादयः चतुर्विंशतिः, शासनदेव्यश्चक्रेश्वर्याद्याः चतुर्विंशतिरेव, ततो विद्यादेवीभिः शासनदेवी भिश्च सेवितौ द्वौ पाश्वौँ वामदक्षिणौ यस्य तत् , पुनः कीदृशं ? 'मृलगह'ति, मूले- कलशस्य मूले ग्रहाः सूर्यादयो यस्य तत् , तथा कण्ठे गलस्थाने निधयो नवसंख्याका नैसर्पकाद्या आगम प्रसिद्धा यस्य तत् , तद्यथा- नैसर्पः 1 पाण्डुकश्चाथ, 2 पिङ्गलः 3 सर्वरत्नकः 4 महापद्मः 5 काल 6 महाकारी, 7 माणव 8 शङ्खको 9 // 1 // " तथा-चत्वारः प्रतीहारा-द्वारपालाः कुमुदाअनवामन पुष्पदन्ताख्या यस्य तत्तथा, चत्वारो वीरा मणिभद्रपूर्णभद्रकपिलपिङ्गलाख्या यस्य तत् , तत्र विद्यादेव्यः षोडशापि म्यै नमः इत्यादि यन्त्रपरितो लिखेत , तथा शासनसुरान् चक्रस्य दक्षिणदिशि लिखेत् , शासनदेवीः अथ वामदिशि लिखेत् , तथा कलशाकारचक्रस्य मूले पतत्ग्रहाऽधः ॐ आदित्याय नम इत्यादीनि नवग्रहाणां नामानि लिखेत् , कण्ठे च वामदक्षिणतो नवापि कलशान तदुपरि ॐ नैसर्पकाय नम