________________ गुरुणो य तया करुणापरित्तचित्ता कहति भवियाणं / गंभीरसजलजलहर-सरेण धम्मस्स फलमेवं // 183 // सुमाणुसत्तं सुकुलं सुरुवं, सोहग्गमारुग्गमतुच्छमाउ / रिद्धिं च विद्धिं च पहुत्तकित्ती, पुन्नप्पसारण लहंति सत्ता // 184 // इच्चाइदेसणंते, गुरुणो पुच्छंति परिचियं मयणं / वच्छे कोऽयं धन्नो, वरलक्खणलक्खिअ सुपुन्नो ? // 185 // तदा-तस्मिन् काले करुणया-कृपया परीतं व्याप्त चित्तं येषां ते तथाविधा गुरवश्च भव्यजीवानां पुरस्तात सजलो जलभृतो यो जलधरो मेघस्तद्वद्गंभीरो यः स्वरस्तेन एवं वक्ष्यमाणप्रकारेण धर्मस्य फलं कथयन्ति 13 // 183 // कथमित्याह--सुष्टु-शोभनं मानुषत्वं तत्रापि सुकुलम्-उत्तम गोत्रं, तत्र पुनः शोभनं रूपमाकृतिः पञ्चेन्द्रियपटुतेत्यर्थः, तत्रापि सौभाग्यं-सर्वजनवल्लभत्वं, तथा आरोग्यं--नीरोगता पुनः अतुच्छं प्रचुरम् आयुर्जीवितं, तथा ऋद्धिसम्पदं च पुनः वृद्धिं पुत्रादिपरिवाररूपां, तथा प्रभुत्वं स्वामित्वं कीतिर्यशः, प्रभुत्वं च कीर्तिश्च प्रभुत्वकीर्ती ते, एतानि वस्तूनि सच्चाः-प्राणिनः पुण्यप्रसादेन-धर्मप्रभावाल्लभन्ते-प्राप्नुवन्ति // 184 // इत्यादिदेशनाया अन्ते गुरवो निजपरिचितां मदनसुन्दरी पृच्छन्ति, हे वत्से ! हे पुत्रि ! अयं पुरोवर्ती धन्यः १८३-अत्र मुनिचन्द्रगुरुस्वरे गंभीरसजलजलधर-सादृश्यवर्णनात् उपमालङ्कारः / 184 -अत्र सुमानुषत्वे सुकुलत्वे सुरूपत्वे सौभाग्ये आरोग्ये च पुण्यप्रसादस्य हेतुतया प्रतिपादनात् काव्यलिङ्गम् /