________________ सिरिसिरि वालकहो मयणावयणाओ उंबरेण सहसत्ति तं फलं गहिअं। मयणाइ सयं माला, गहिया आणंदिअमणाए // 18 // भणिअं च तीइ सामिअ, फिहिस्सइ एस तुम्ह तणुरोगो। जेणेसो संजोगो, जाओ जिणवरकयपसाओ॥ 181 // तत्तो मयणा पइणा-सहिआ मुनिचंदगुरुसमीवंमि / पत्ता पमुइअचित्ता, भत्तीए नमइ तस्स पए // 182 // कण्ठात् करस्थितबीजपूरकादिफलेन सहिता कुसुमानां पुष्पाणां वरा--प्रधाना माला गच्छलिता // 179 / / तदा मदनसुन्दरीवचनात् उम्बरराजेन सहसा-सद्यस्तत्फलं गृहीतमिति पादपूरणे तथा आनन्दितं मनो यस्याः सा आनन्दितमनास्तया तादृश्या मदनसुन्दर्या स्वयम् आत्मना माला गृहीता // 180 // च-पुनः तया मदनसुन्दर्या भणितं हे स्वामिन् ! एष युष्माकं तनुरोगो देहव्याधिः "फिट्टिस्सई"त्ति अपयास्यति, येन कारणेन एष संयोगो जिनवरेण -ऋषभस्वामिना कृतः प्रसादो यस्मिन् स ईदृशो जातोऽस्ति, तेन ज्ञायते इत्यर्थः॥१८१॥ ततस्तदनन्तरं मदनसुन्दरी पत्या-स्वभा सहिता मुनिचन्द्राख्यगुरूणां समीपे प्राप्ता, तदा प्रमुदितं हृष्टं चित्तं यस्याः सा तथाविधा सती भक्त्या तस्य गुरोः पादौ चरणौ नमति // 182 // १८०-अत्र "मयणा वयणाओ" इत्यत्र छेकानुप्रासः / १८२-अत्र "पत्ता पमुइअचित्ता" इत्यत्रच्छे. कानुप्रासोऽलङ्कारः।