________________ भत्तिभरनमिरसुरिंदीवंद-वंदिअपय पढमजिणंदचंद / चंदुजलकेवलकित्तिपूरपूरियभुवणंतरवेरिसूर // 174 // सूरुव्व हरिअतमतिमिर देव देवासुरखेयरविहिअसेव / सेवागयगयमयरायपायपायडियपणामह कयपसाय // 175 // श्चन्द्रवदज्ज्वलो धवलः केवल:-सम्पूर्णी यः कीर्तिपूरो-यशः समूहस्तेन पूरितं-भरितं भुवनं लोकत्रयं येन स | तत्सम्बुद्धौ चन्द्रोज्ज्वल० पुनः आन्तरा-मध्यवर्तिनो ये वैरिणः-कामक्रोधादयस्तेषां जये शूरस्तत्सम्बोधने हे. // 174 // पुनः सूरः-सूर्यः स इव हृतं-दूरीकृतं तमोऽज्ञानमेव तिमिरं-अन्धकारं येन स तत्सम्बुद्धौ हे हततमस्तिमिर ! दे देव ! पुनः देवा वैमानिकादयः असुरा-भवनपत्यादयः खेचराः विद्याधरास्तै विहिता कृता सेवा यस्य सः तत्सम्बोधने हे देवा० !, सेवार्थमागताः-सेवागताः गतो मदो येषान्ते गतमदाः-परित्यक्ताहंकारा इत्यर्थः, एवंविधा ये राजानस्तैः पादयोः प्रकटितः प्रणामो-नमस्कारो यस्य तत्सम्बोधने हे सेवा० पुनः कृतः प्रसादो येन स तत्सम्बोधने हे कृतप्रसाद ! // 175 // ..१७४-अत्र प्रथमजिनेन्द्र चन्द्रसादृश्यवर्णनादुपमा उज्ज्वलत्वेन साधयेण चन्द्रसादृश्यस्य केवले कीत्तौ च वर्णनादुपमालङ्कारः। १७५-तमस्तिमिरहारकत्वेन बिम्बप्रतिबिम्बभावमूलेन साधय॑ण प्रथमजिनेन्द्र सूर्यसादृश्य वर्णनात् उपमा उत्तरार्द्ध च " हयगयमय" इत्यंशे वृत्त्यनुपासः “पाय पाय" इत्यंशे-छेकानुप्रासश्चालङ्कारौ /