________________ सीलं चिअ महिलाणं, विभूसणं सीलमेव सव्वस्सं / सीलं जीवियसरिसं, सीलाउ न सुंदरं किंपि // 169 // ता सामिअ ! आमरणं, मह सरणं तंसि चेव नो अन्नो / इअ निच्छियं वियाणह, अवरं जं होइ तं होउ // 17 // एवं तीए अइनिच्च-लाइ दढसत्तपिवखणनिमित्तं / सहसा सहस्सकिरणो, उदयाचलचूलिअं पत्तो // 171 // यतो महिलाना--स्त्रोणां शीलमेव विभूषणम्-आभरमणमस्ति, तथा-शीलमेव सर्वस्वं-सर्वसारमस्ति, पुनः स्त्रीणां शीलं जीवितसदृशं--जीविततुल्यं वर्तते. तासां शीलात् अधिकं सुन्दरं--रम्यं किमपि नास्तीत्यर्थः // 169 // तस्मात् हे स्वामिन् ! आमरणं--मरणपर्यन्तं मम त्वमेव शरणम्--आश्रयोऽसि, अन्यो न कश्चित् शरणम् , इत्येतत् निश्चित -निश्चययुक्त यूयं विजानीत, अपरम्--अन्यद् यद्भवति-तद्भवतु // 170 // एवमुक्तप्रकारेण अतिनिश्चलायास्तस्या मदनसुन्दर्या यद् दृढं सच-धैर्य तस्य प्रेक्षणनिमित्त-दर्शनार्थ सहसाऽकस्मात् | १६९-अत्रकम्य महिलाशीलस्य विभूषगत्वेनसर्वस्वत्वेनोलखादुल्लखालङ्कारः, उत्तरार्द्ध शीले जीवित सादृश्यस्य वर्णनादुपमालङ्कारः / / १७०-अत्र " आमरण" "सरणं" इत्यत्र रणशब्दस्यासकृदावृत्त्याच्छेकानुप्रासः / ११--अत्र दिनकरस्य स्वतः सिद्धरापि उदयाचलप्रापणस्य अतिनिश्चलाया स्तम्यादृढसत्वप्रेक्षण हेतुत्वसंभावनाद्धेतून्प्रेक्षाऽलङ्कारः।"भवेत्-संभावनोत्प्रेक्षा प्रकृतस्य परात्मना" इति काव्यप्रकाशे आचार्यमम्मटः।