________________ मयणा भइ धिद्धी, घणलवमित्तत्थिणो इमे सव्वे / जाणता वि हु अलिअं, मुहप्पिय चेव जपंति // 104 // जइ ताय ? तुहपसाया, सेवयलोआ हवंति सब्वेवि / सुहिया ता समसेवानिरया किं दुक्खिया एगे // 105 // तम्हा जो तुम्हाणं, रुच्चइ सो ताय? मज्झ होउ वरो। जइ अस्थि मज्झ पुन्नं, ता होही निग्गुणोवि गुणी॥ 106 // एतत् समालोकवचः श्रुत्वा मदनसुन्दरी भणति, एतान् धिग् धिग् अस्तु, इमे सर्वे लोका धनस्प लवमात्रमर्थयन्तेऽभिलषन्ति तच्छीला धनलवमात्रार्थिनः, जानन्तोऽपि हु निश्चितम् अलीकं मिथ्यावचनं मुखप्रियं मुखमिष्टमेव जल्पन्ति // 104 // ' हे तात ? यदि तब प्रसादात् सर्वेऽपि सेवकलोकाः सुखिनो भवन्ति, तत्तर्हि समा तुल्या या सेवा तस्यां निरतास्तत्परा एके केचित्सेवकलोका दुःखिताः कथं ?. सर्वेऽपि सुखिन एव युज्यन्ते इति भावः // 105 // तस्मात् हे तात ! यो युष्मभ्यं रोचते स एव मम वरो भवतु, यदि मम पुण्यमस्ति तर्हि भवद्दत्तो निर्गुणोऽपि वरो १५-अत्र सुखकारणस्य राजसेवानिरतत्वस्य सत्त्वेऽपि केषाञ्चित् सुखाभाषात् विशेषोक्तिरलङ्कारः म "विशेषोक्तिरखण्डेषु कारणेषु फलावचः" इति काव्यप्रकाशः /