________________ यथा-विणयविवेयपसण्णमणु सीलसुनिम्मलदेहु / परमप्पहमलावडउ, पुण्णेहिँ लब्भइ एहु // 76 // तो तीए उवझाओ, मायावि अ हरिसिआ न उण सेसा / जण तत्तोवएसो न कुणइ हरिसं कुदिट्ठीणं // 77 // इओ अ-कुरुजंगलंमि देसे, संखपुरीनाम पुरवरी अस्थि / __ जा पच्छा विक्खाया, जाया अहिछत्तनामेणं // 78 // विनयः-पूज्यादिषु वन्दननमस्कारादिरूपः, विवेको वस्तूनां भेदपरिज्ञानं सदसद्विवेचनमित्यर्थः, का तथा शीलेन ब्रह्मचर्येण सुनिर्मलोऽत्युज्ज्वलो देहस्तथा परम उत्कृष्टः पन्था मागः परमपथो मोक्षमार्ग इत्यर्थः, तेन सह मेलः सम्बन्ध एतद्वस्तुवृन्दं पुण्यर्लभ्यते // 76 // ततस्तदनन्तरं तस्या मदनसुन्दर्या उपाध्यायो हर्षितस्तुष्टश्च / पुनर्मातापि हर्षिता न पुनः शेषा राजादयो लोकाः, ते हर्ष न प्राप्ता इत्यर्थः, कुत इत्याह-येन कारणेन तत्त्वोपदेशः कुदृष्टीनां मिथ्यात्विलोकानां हर्ष न करोति, अयं भावस्तस्या वाक्यं तच्चोपदेशरूप, राजादयस्तु कुदृष्टयस्तेन तत् श्रुत्वा ते हर्ष न प्राप्ता इति. उक्तश्च "गुणिनि गुणज्ञो रमते" इत्यादि / 77 // इतश्च अतः परं यज्जातं तदाह-कुरुजङ्गलदेशे शङ्खपुरी नाम प्रधानपुरी अस्ति, या पुरी पश्चात् कियकालानन्तरम् अहि ७६-विनयबिवेकादीनां वस्तुतः परमपुण्य लभ्यत्वेन राज्ञः परिषदश्च तत्प्रशंसनमोचित्यं भजत इति /