________________ वालकहा सिरिसिरि // 15 // जीसे सो उज्झाओ, संतो दंतो जिइंदिओ धीरो। जिणमयरओ सुबुद्धी, सा किं नहु होइ तस्सीला // 67 // सयलकलागमकुसुला, निम्मलसम्मतसीलगुणकलिया। लज्जासज्जा सा मयणसुन्दरी जुब्वणं पता // 68 // अन्नदिणे अभितरसहानिविद्रुण नरवरिंदेण / अज्झावयसहियाओ, अणाविआओ कुमारीओ // 69 // श्रावक उपाध्यायः पाठकः, सा मदनसुन्दरी तच्छीला गुरुतुल्यस्वभावा कि नहि भवति ? भवत्येवेत्यर्थः, कीदृशः सः? इत्याह-शान्त:-क्षमायुक्तः, तथा दान्तो मानसदमयुक्तः, पुनर्जितेन्द्रियस्तथा धीरो धैयवान्, बुद्धिमान् वा, पुनर्जिनमते रक्त ईदृशो यस्या गुरुः सा तादृशगुणवती कथं न भवेत् ? // 67 // ____सा मदनसुन्दरी यौवनं प्राप्ता, कीदृशी सा ? इत्याह-सकलकलागमेषु-समस्तकलाशास्त्रेषु कुशला-निपुणा पुनर्निर्मला ये सम्यक्त्वशीलगुणास्तैः कलिता युक्ता तथा लज्जायां सज्जा परिपूर्णा प्रगुणेति यावत् , एवंविधा मदनसुन्दरीकन्या बाल्यावस्थामतिक्रम्य यौवनावस्थां प्राप्तवतीत्यर्थः // 68 // अन्यस्मिन् दिने अभ्यन्तरसभायां ६८-अत्र पूर्वार्द्ध सकारस्य मकारस्य लकारस्य चासदावृत्त्या वृत्त्यनुप्राससंसृष्टिः, उत्तरार्द्ध च 'ज्जा' इत्यस्य सकृदावृत्त्या छेकानुप्रासश्च /