________________ अट्टेव य कम्माइं नवतत्ताइं च दसविहो घम्मो / एगारस पडिमाओ बारस वयाइं गिहीणं च // 64 // इच्चाइ वियाराचारसारकुसलत्तणं च संपत्ता / अन्ने सुहम वियारेवि मुणइ सा निययनाम व // 65 // कम्माणं मूलुत्तरपयडीओ गणइ मुणइ कम्मठिई / जाणइ कम्मविवागं, बंधोदयदीरणं संतं // 66 // ज्ञानावरणीयादीन्यष्टैव कर्माणि सन्ति, च पुनर्जीवादीनि नवतत्त्वानि सन्ति, तथा मन्त्यादिको दशविधो यतिधर्मो विद्यते, एकादश दर्शनाद्याः श्रावक प्रतिमाः सन्ति, च पुनर्गृहिणां स्थूलप्राणातिपातविरमणादीनि द्वादश व्रतानि सन्ति // 64 // “सा मदनसुन्दरी" इत्यादयो ये विचाराचारयोः सारा रहस्य भूतपदार्थास्तेषु कुशलत्वं निपुणत्वं सम्प्राप्ता. च पुनः / साऽन्यान् एतद्वयतिरिक्तान् सूक्ष्मविचारानपि निजकनामवत् जानाति // 65 // अष्टौ मूल प्रकृतीः पुनः सा कर्मणां मूलभेदान् तथाऽष्टपश्चाशदधिकशतमुत्तरप्रकृतीगणयति, तथा कर्मणां स्थिति त्रिंशत्कोटीकोटीसागरोपमादिकां जानाति, पुनः कर्मणां विपाकं शुभाशुभानुभ वस्वरूपं जानाति, तथा कर्मणां बन्धोदयोदीरणया (णा) सत्तास्वरूपं जानाति // 66 // यस्याः सुबुद्धिर्नाम ६४।६५६६।६७-स्पष्टानि /