________________ सिरिसिरि बाल कहा RECO तीसे पुरीई सुरवरपुरीई अहियाइ वण्णणं काउं / जइ निउण बुद्धिकलिओ, सक्कगुरू चेव सक्कइ // 44 // तत्थत्थि पुहविपालो, पयपालो नामओ अ गुणओ अ। जस्स पयावो सोमो, भीमो विय सिदृदुट्टजणे // 45 // तस्सवरोहे बहुदेहसोहअवहरियगोरि गब्वेवि / अच्चतं मणहरणे, निउणाओ दुन्नि देवीओ॥ 46 // उज्जयिनीपुर्या वर्णनं कर्तुं यदि निपुणबुद्धथा कलितो युक्तः कश्चित् शक्नोति तर्हि शक्रगुरु:-बृहस्पतिरेव शक्नोति समर्थो भवति नान्य इति भावः-लोकोक्त्या बृहस्पतिः शक्रगुरुरुच्यते // 44 // तत्र नगर्या प्रजापालो नाम पृथिवीपालो राजास्ति, स च नामतश्च गुणतश्च प्रजापाल एवास्ति, प्रजाः पालयतीतिव्युत्पत्तेः, स कीदृशः ? इत्याह-यस्य प्रतापः शिष्टेषु दुष्टेषु च सौम्यो मनोहरो भीमोभयङ्करश्चापि क्रमेण विद्यते, शिष्टेषु-सत्पुरुषेषु सौम्यः, दुष्टेषु भीम इत्यर्थः / / 45 // तस्य राज्ञोऽवरोधेऽन्तःपुरे द्वे देव्यौ राझ्यौ मनोहरणे-पत्युमनोरञ्जने अत्यन्तं निपुणेस्तः, कीदृशेऽवरोधे ? बहुदेहशोभापहृतगौरोगद्येऽपि 44 स्पष्टम् / 45 अत्र 'पालो' इत्यस्य सकृदावृत्त्याच्छेकानुप्रासः, “सिट्ठदुट्ट" इत्यत्रापि स पवालङ्कारः / 46 अत्र राश्यो ौरी गर्वापहारित्वेन तदधिकशोभाशालित्वेनात्कर्षवर्णनाद व्यतिरेकालङ्कारः / RG // 11 //