________________ पए पए जत्थ सवाणियाणि महापुराणिव महासराणि। पए पए जस्थ सगोरसाणि, सुहीमुहाणीव सुगोउलाणि // 40 // तत्थ य मालवदेसे, अकयपवेसे दुकालडमरेहिं।। अत्थि पुरी पोराणा, उज्जेणी नाम सुपहाणा // 41 // वाणिजैः-वणिभिर्वतन्ते इति सवाणिजानि भवन्ति, पुनर्यत्र देशे पदे पदे सुष्टु शोभनानि गोकुलानि सन्ति, कीदृशानि ? सह गोरसेन-दधिदुग्धादिना वर्तन्त इति सगोरसानि, तानि कानीव ? सुधियां पण्डितानां मुखानीव, यतस्तान्यपि गोः-वाण्या रसो गोरसस्तेन सहितानि भवन्ति // 40 // तत्र च-तस्मिन् मालवदेशे पुराणा-जीर्णा " उज्जयिनी" नाम सुतरां प्रधाना पुरी अस्ति, कीदृशे मालबदेशे ? दुष्कालेत्यादि-दुष्कालो 4. अत्र पानीय वाणिजयो बिम्बपति बिम्बभाव कृत साधारण धर्मत्वेन महासरस्सु महापुरसादृश्या दुपमालङ्कारः, तथा चोक्तमलङ्कार चन्द्रिकायाम्-" उपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वम, तदाश्र. यत्वेन विवक्षितत्वं चोपमेयत्वम् / साधारणत्वं च धर्मे स्वारलिक मौपचारिक बिम्बपति बिम्बभावकृतं प्रलेषकृतं वस्तुप्रतिवस्तुभावेन समासाश्रयणेनेत्यनेकधेति चित्रमीमांसायां प्रपवितम्" इति / किन सगोरसत्वेन (दधिदुग्धादिसहितत्वेन-वाणीसहितत्वेन च) साधयण गोकुलेषु पण्डितवदनसादृश्य प्रतिपादनादपि प्रलेषमूलोपमालङ्कारः। 41 अत्र दुष्कालडमराप्रवेशद्वारेण परमसमृद्धि सूचनादीत्यादि दोषरहितत्वमपि व्यज्यते,