________________ सिरिसिरि वालकहा 56 पए पए जत्थ रसाउलाओ पणंगणाओव्व तरंगिणीओ। पए पए जत्य सुहंकराओ गुणावलीओव्व वणावलीओ // 39 // योग प्रवेशा इव योगे प्रवेशो येषान्ते तथोक्ताः योगिन इवेत्यर्थः, यतो योगिनोऽपि सुगुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ता भवन्ति, पुनः यत्र देशे पदे पदे तुङ्गा उच्चस्तराः शैलाः पर्वताः सन्ति, कीदृशाः ? अगअनीयाः-- जनानामलङ्घनीयाः, के इव ? कुटुम्बमेला इव, यतस्तेऽपिलोकानामगझनीया भवन्ति // 38 // पुनः यत्र देशे पदे पदे रसाकुला-जलभृताः तरङ्गिण्यो नद्यः सन्ति, का इव ? पणाङ्गना इव-वेश्या इव, यतस्ता अपि रसाकुलाः शृङ्गाररसस्य (सेन) व्याप्ता भवन्ति, पुनर्यत्र देशे पदे पदे सुखङ्कराः-सुखकारिण्यः वनावलयो-वनानां श्रेणयः सन्ति, का इव ! गुणानामावलयः श्रेण्य इव, यतस्ता अपि सुखङ्करा भवन्ति // 39 // पुनर्यत्र देशे पदे पदे सपानीयानि पानीयसहितानि जलभृतानीति यावत् महान्ति सरांसि सन्ति, कानीव ? महापुराणीव, यतस्तान्यपि सह मेलातुङ्गाशैलयोरगञ्जनीयत्वात्मसाधारणधर्मामिसम्बन्ध प्रयोज्य लादृश्यस्येवशब्दवाच्यत्वादपि पूर्णोपमैवालङ्कारः / तयोश्च परस्परं निरपेक्षतया “मिथोऽनपेक्षयेतेषां स्थितिः संसृष्टिरुच्यते” इत्युक्त्यातयोः संसृष्टिरप्यलङ्कारः / इदमत्र तत्वम् यत्रालङ्कारां परस्परं नैरपेक्ष्यं तत्र तिलतण्डुलवत् संसृष्टिर्भवति, यत्र पुनः सापेक्षाणामलङ्काराणामेकत्र समावेश स्तत्राङ्गादिभावात्मापङ्कगे भवत्यलङ्कार इति / 39 अत्र तरङ्गिणीनां रसाकुलत्वेन (जलभृतत्व शृङ्गाररसव्याप्तत्वेन) पणाङ्गना सादृश्यप्रतिपादनात् सुत्रकारित्वेन बनावलीनां गुणावलीसादृश्य प्रतिपादनाच्च पूर्णोपमाद्वयं तत्संसृष्टिवालङ्कारः /