SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ एयाइं नवपयाइं जिणवरधम्ममि सारभूयाई / कल्लाणकारणाई, विहिणा आराहियव्वाई॥३३॥ धरं तपसो द्वादशभेदत्वात् , सूर्यपक्षे लोके द्वादशसूर्याणां रुढत्वात् नवरंइतिशेषः, सूर्यस्तापकारको भवति. इदन्तपस्तु अकषायतापं न विद्यते कषायरूपस्तापो यस्मिस्तत्, एतावता कषायरहितमेव तपः सेव्यमित्यर्थः // 32 // एतानि नवपदानि जिनवरधर्म-श्री जिनोक्तधर्मविषये सारभूतानि, अत एव कल्याणकारणानि सन्ति, तस्माद्विधिना, आराध्यानि भवद्भिरिति शेषः // 33 // 32 अत्र तपसि सूर्यत्वारोपमुपपादयितुं ज्ञानावरणीयादिकर्मसु तमस्त्वारोपस्वीकारात् परम्परितं रूपकं नाशनीयम् , द्वादशाङ्गधरत्वस्योभय साधारणम्य धर्मस्य शब्दत उपादानातू, यत्र भारोप्यारोपविषययोः साधारणो न कोऽपि धर्म उपलम्यते तत्रय रूपकं परम्परितमुच्यते यथा-"विद्वन्मानसहसवैरि कमलासंकोचदीप्रद्युते दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर ! सत्य प्रतिविधानदक्ष विजयप्राग्भावभीमप्रभो साम्राज्यं बरवीरवत्सरशतं वैरिश्चमुच्चेः क्रियाः" इत्यादौ राशि हंसत्वाद्यारोपस्य साधारणधर्म विनाऽनुपपन्नस्योपपत्यर्थ मानसादौ मानस सरस्वाद्यारोपो भवति, प्रकृते तु तपः सूर्ययोः साधारणधर्मस्योक्तत्वान्नपरंपरितं भवितुमर्हति किन्तु सावयवमेवरूपकमवसेयम् / किश्वात्रोपमानोपमेययोः विशेषात् उपमानापेक्षयोपमेयस्योत्कर्ष प्रतिपादनाच्च तिरेकोऽप्यलङ्कारः "व्यतिरेको विशेषश्चेदुपमानोपमेययोः" इति चन्द्रालोकः / " आधिक्यमुपमेयस्योपमानान्यूनताऽथवा व्यतिरेकः" इति साहित्यदर्पणश्च // 33 अनोत्तराद्धे णकारस्यासकृदावृत्या वृत्त्यलङ्कारः स्वयमूह्यः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy