________________ बालकहा सिरिसिरि // 117 // सो जंपइ धवलं पइ न कहिज्जइ एसिमेरिसं मंतं / जं एए अरिभूया तुह अहिअं चेव चिंतंति // 625 // इक्कोऽहं तुह मणवंछियत्थसंसाहणिकतल्लिच्छो। अच्छामि ता तुम मा निअचित्ते किंपि चिंत्तेसु / / 626 // किंतु विसेसेण तुमं सिरिपालेणं समं कुणसु मित्तिं / जं सो वीसत्थमणो अम्हाणं सुहहओ होइ॥ 627 // स पुमान् धवलं प्रति जल्पति-कथयति, अहो श्रेष्ठिन् ! ईदृशो मन्त्रः-आलोचः एभ्यस्त्रिभ्यो न कथ्यते, यद्-यस्मात्कारणात् एतेऽरिभूताः-शत्रुतुल्यास्तव-अहितमेव चिन्तयन्ति / / 625 // एकोऽहं तव मनोवाञ्छितार्थसंसाधने एका सा एव लिप्सा यस्य सः, त्वन्मनश्चिन्तितार्थसम्यक्साधनतत्पर इत्यर्थः अच्छामि त्ति स्थितोऽस्मि तस्मात त्वं निजचित्ते किमपि मा चिन्तय-कामपि चिन्तां मा कृथा इत्यर्थः // 626 // किन्तु त्वं श्रीपालेन समं-साई विशेषेण मैत्र्यं कुरुष्व, यद्-यस्मात्कारणात् विश्वस्तं-विश्वासयुक्तं मनो यस्य स विश्वस्तमनाः सन् स-श्रीपालोऽस्माकं सुखहतो भवति, सुखेन हतं-हननं यस्य स इति ६२५-स्पष्टम् / ६२६-अत्र "इकोऽहं" इत्युक्त्या स्वस्मिन्नेव तस्मिन् मित्रत्वं व्यज्यते / ६२७--अत्र णकारस्यासकृदावृत्याऽनुप्रासः / // 117 //