________________ वालकहा सिरिसिरि पयडीयकुसीलयंगा कयकडुयमुहा य अवगणिअणेहा / मलिणा कढिणसहावा तावं न कुणंति कस्त खला ? // 621 // विरसं भसंति सविसं डसंति जे छन्नर्मिति सुंघेता। ते कस्स लद्धछिद्दा दुज्जणभसणा सुहं दिति ? // 622 // द्रेषु-परकीयदोपेषु परजन्तुनिवासविवरेषु च रता-रक्ता पुनः भीपणा-भयानकाः तथा दशना-जिहूवया दंष्ट्रा भिश्च परघातकारकाः // 620 // अथ ज्वरोपमया दुर्जनस्वरूपं दर्शयन्नाह-इहानुक्तमपि ज्वरा इति उपमानपलिदमर्थसम्बन्धात् ग्राह्य, ततोऽयमन्वयः-खलाः-दुर्जनाः पुरुषा ज्वरा इव कस्य तापं न कुर्वन्ति ? सर्वस्यापि कुर्व न्तीत्यर्थः, उभयेऽपि कीदृशा इत्याह-प्रकटिता प्रकटीकृता कुशीलता-कुत्सितस्वभावता अङ्गे-शरीरे यैस्ते तथा (कृतानि कटुकानि मुखानि यैस्ते) तथाऽवगणिताः-अनादरविषयोकृतः स्नेहः-प्रेम यैस्ते ज्वरपक्षेऽवगणितः स्नेहो-घृतादिर्येषु सत्सु, तथा मलिना एके भावतोऽन्ये देहमालिन्योत्पादकत्वात् अत एव उभयेऽपि कठिनस्वभावाः कठिनः स्वभावो येषां ते तथोक्ताः ज्वरपक्षे देहे काठिन्योत्पादनात् // 621 // .. अथ श्वानोपमया दुर्जनस्वरूपं दर्शयन्नाह ते दुर्जनाः-खला एव भषणाः-श्वाना दुर्जनभषणा लब्धं छिद्रं& छलं यैस्ते लब्धच्छिद्राः सन्तः कस्मै सुखं ददति ? न कस्मै अपीत्यर्थ, ते के इत्याह-ये विगतो रसो-मधुरा ६२१-मत्र खलज्वरयोस्तापदायकत्वेन साधयेणामेवदर्शनापकालङ्कारो व्यज्यते / ६२२-अत्र विरसभर्सनेन सविषदंशकरवेन लब्धपरच्छिद्रत्वेन दुजने भषणत्वारोपाद्रूपकमलकारः /