________________ तं निसुणिऊण ते विहु भणंति चउरोऽवि मित्तवाणिअगा। हहहा किमियं तुमए भणिों कन्नाण मूलसमं ? // 612 // अन्नस्सवि धणहरणं न जुलए उत्तमाण पुरिसाणं। जं पुण पहुणो उवयारिणो अ तं दारुणविवागं // 613 // इअरित्थीणावि संगो उत्तमपुरिसाण निन्दिओ लोए / जा सामिणीइ इच्छा सा तक्खयसिरमणिसरिच्छा // 614 // | निजकं स्वकीयं दुष्टं चिन्तितं कथयति // 611 // तद्धवलचिन्तितं श्रुत्वा ते चत्वारोऽपि मित्रवाणिजका भणन्ति जल्पन्ति, किं भणन्तीत्याह-हहहा इति खेदे त्वया कर्णानां शूलसम-शूलतुल्यं किमिदं भणितं-उक्तम् // 612 // उत्तमानां पुरुषाणाम् अन्यस्यापि कस्यचिल्लोकस्य धनहरणं--द्रव्यापहरणं न युज्यते, यत्पुनः प्रभोःस्वामिनः उपकारिणश्च धनहरणं तद् दारुणो भयानको विपाकः फलानुभवो यस्य तत् तादृक् अस्ति // 613 // उत्तमपुरुषाणां इत (र) स्त्रीणां--अन्यसामान्यलोकस्त्रीणामपि संगः--संयोगो लोके निन्दितोऽस्ति, या पुनः B स्वामिन्या इच्छा--अभिलाषः सा तक्षकस्य -नागराजस्य या शिरसो मणिस्तत्सदृक्षा-तत्तुल्येत्यर्थः महादुःखदा ६१२-अत्र धवलश्रेष्ठिवाक्ये कर्णशूलसादृश्यवर्णनादुपमालङ्कारः। ६१३-अत्र अन्यदीयधनहरणेऽपि पापं भवति चेत् का कथा पुनरुपकारिणः प्रभोधनापहार इति काव्यार्थापत्तिरलङ्कारो व्यज्यते / ६१४-अत्र स्वामिनीविषयकस्तवाभिलाषो नूनं तक्षकमस्तकस्थितमणिप्राप्त्यमिलाप इवेति वाक्यार्थस्योपमायां पर्यवसानान्निदर्शनालङ्कारः।