________________ एवं सो धणलुद्धो रमणीझाणेण मयणसरविद्धो / दुज्झवसायाणुगओ न लहेइ रई ससल्लुब्व // 606 // इकिल्लओवि लोहो बलिओ सो पुण सदप्पकंदप्पो / जलणुव्व पवणसहिओ संतावइ कस्स नो हिययं ? // 607 // तत्तो सो गयनिदो सयणीअगओऽवि मज्झरचणीए / दुक्खेण टलवलंतो दिट्ठो तम्मित्तपुरिसेहिं // 608 // निष्फलमित्यर्थः / / 605 // एवं अमुना प्रकारेण धनलुब्धः- परद्रव्यलोभयुक्तस्तथा मदनशरैः-कामवाणैर्विद्धःताडितोऽत एव दुरध्यवसायान् दुष्टपरिणमान् अनुगतो अभिव्याप्तः स धवलः सह शल्येन वर्तते इति सशल्य इव रतिं सातं न लभते न प्राप्नोति // 606 // एकाक्यपि लोभो बलिको बलवान् अस्ति, च पुनः दर्पकन्दपाभ्यां सह वर्तमानः कस्य पुरुषस्य हृदयं चित्तं नो सन्तापयति ?, सर्वस्यापि हृदयं सन्तापयतीत्यर्थः, क इव ? पवनेन वायुना सहितः--सँय्युक्तो ज्वलनो वहिनरिख, यथा वायुप्रेरितो वह्निः सर्वस्यापि मनः सन्तापयेत्तथेत्यर्थः // 607 // ततः तदनन्तरं स धवलो गता निद्रा यस्य स गतनिद्रः सन् मध्यरजन्यां-अर्द्धरात्रेऽपि शयनीयगतः शय्यां प्राप्तो दुःखेन टलवलन् तस्य धवलस्य मित्रपुरुषैर्दृष्टः / / 608 // च पुनः तैमित्रः पृष्टः-अद्य तवांगे को ६०६--धवलस्य मदनशरविद्धत्वे रमणीचिन्तनस्य कारणतया काव्यलिङ्गम् / ६०७--६०८-साष्टे / .