SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 113 // दट्टण कुमरलीलं रमणीजुयलं च रिद्धिवित्थारं / धवलो विचलिअवित्तो एवं चिंतेउमाढत्तो // 603 // अहह अहो जणमित्तो संपत्तो केरिसिं सिरिं एसो।। अन्नं च रमणिजुयलं एरिसयं जस्स सो धन्नो // 604 // ता जइ एयस्स सिरी रमणीजुयलं च होइ मह कहवि / ताऽहं होमि कयत्यो अकयत्यो अन्नहा जम्मो // 605 // यथा पालकाधिरूढः पालकविमानावस्थितः देवेन्द्रः-शको गगनमार्गे-आकाशमार्गेऽपि लीलां अनुभवति तथेत्यर्थः॥६०२ // तदा धवलः श्रेष्ठी कुमारस्य लीलां तथा रमणीयुगलं-स्त्रीद्वयं च पुनः ऋद्धिविस्तार दृष्ट्वा-विलोक्य विशेषेण चलितं चित्तं यस्य स विचलितचित्तः सन् एवं वक्ष्यमाणप्रकारेण चिन्तयितुं आरब्धआरम्भं कृतवान् चिन्तयितु लग्न इत्यर्थः // 603 // अहहेति खेदे अहो इत्याश्चर्ये एष श्रीपालो जनमात्र-- एकाकिमनुष्यमात्रः सन् कीदृशीं श्रियं--लक्ष्मी सम्प्राप्तः-प्राप्तवान्, अन्यच्च- अन्यत्पुनर्यस्य इदृशं रमणीयुगलंपत्नीद्वयमस्ति स एष धन्यः / / 604 // तत्तस्मात् यदि एतस्य श्रीपालस्य श्रीः-लक्ष्मीः च पुनः, रमणीयुगलं-स्त्रीद्वयं कथमपि-केनापि प्रकारेण मम भवति, तत् तर्हि अहं कृतार्थों-निष्पन्नप्रयोजनो भवामि, अन्यथा एतयोः प्राप्त्यभावे मम जन्म अकृतार्थ ६०३--६०४-स्पष्टे / ६०५--अत्र "कयस्थो अकयत्थो" इत्यत्र भिन्नार्थत्वाभावान्न यमकम् , किन्तु छेकानुप्रास पव / // 113 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy