________________ अह चित्तमासअट्ठाहिआउ विहिआउ तत्थ विहिपुच्वं / सिरिसिद्धचक्कपूआविहीवि आराहिओ तेण // 588 // अन्नदिणे तस्स जिणालयस्स सुबलाणयंमि आसीणो। राया कुमारसहिओ कारावइ जाव जिणमहिमं // 589 // ता दंडपासिएणं विन्नत्तो देव ! सत्यवणिएणं / एगेण दाणभंगं काउं आणावि तुह भग्गा // 59 // अथ-अनन्तरं तेन श्रीपालकुमारेण तत्र नगर्यो विधिपूर्व चैत्रमासस्य अष्टाह्निका विहिता-कृता, श्रीसिद्धचक्रस्य पूजाविधिरपि आराधितः-सेवितः, अत्र पूर्वार्धे एकस्तुशब्दो विशेषे द्वितीयः पादपूरणे // 588 // अन्यस्मिन् दिने तस्य जिनालयस्य-जिनगृहस्य सुबलानके-जनोपवेशनस्थाने आसीन-उपविष्टो राजा कुमारसहितो यावत् जिनस्य-भगवतो महिमानं कारयति // 589 // तावत् दण्डपाशिकेन-दण्डनियोगिपुरुषेण राजा विज्ञप्तः-हे देव-हे राजन् ? एकेन सार्थवणिजा दानभंग कृत्वा तवाज्ञापि भग्ना // 59 // स-एष सार्थव ५.८-स्पष्टम् / ५८९-जिनमहिमप्रकाशनात् राक्षस्तस्य जिनेश्वरे प्रबला भक्ति य॑ज्यते / ५९०-अत्र "पासिपणं वणिपणं" इत्यंशेऽनुप्रासोऽलङ्कारः /