________________ सव्वासु कम्मभुमिसुं, विहरते गुणगणेहि संजुत्ते / गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए // 28 // सव्वन्नुपणीयागमपयडियतत्तत्थसद्दहणरूवं / दंसणरयणपइवं निच्चं धारेह मणभवणे // 29 // | विचरतो मुनिराजान् ! साधून ध्यायत, कीदृशान् मुनिराजान् ? गुणानां गणै--समूहैः संयुक्तान् , पुनः ? Paa गुप्तान-गुप्तित्रय युक्तान् , पुनः ? मुक्तान् सर्वसङ्गवर्जितान् पुनः ? निष्ठिता अन्तंप्राप्ताः कषाया येषान्ते तान् // 28 // | भो भव्याः ? सर्वज्ञैः प्रणीता उक्ता ये आगमाः सिद्धान्तास्तेषु प्रकटिताः प्रकटीकृता ये तत्वार्थास्तद्रूपाअर्थास्तेषां यत् 6 श्रद्धानं तद्रूपं दर्शनरत्नप्रदीपं सम्यक्त्वरूपरत्न प्रदीपकंनित्यं-सर्वदा मनोभवने मनोमन्दिरे धारयत // 29 // 28 अत्र "निट्ठियकसाप" इत्यत्र निष्ठा शब्दस्य नाशोऽर्थः, सचैवार्थोऽन्तशब्दस्यापि टीकायां विवक्षितः, " निष्ठा निष्पत्ति नाशान्ताः” इत्यमरनानार्थः, " अन्तोमृताववसिते समाप्तावपि कथ्यते" इति शब्दार्णवः / 29 अत्र मनसि मन्दिरत्वारोपस्य श्रद्धाने दर्शन रत्नप्रदीपत्वारोप कारणत्वात् परम्परितरूपकमलङ्कारः तथाहि-सावयवं निरवयवं परम्परितं चेति त्रिविध रूपकं प्रत्येकं क्रमेण द्विविधम् , समस्तवस्तुविषयमेक देश विवति च, केवलं माला च लिएवावक्रमश्लिष्टवाचकं चेति श्लिष्टाश्लिष्टमेदयोः केवलमालारूपत्वा. भ्यामन्त्यं चतुर्विधमित्यष्टौ मेदा रूपकस्यावसेयाः। ..