________________ KE सिरिसिरि बालकहा SKISUUS कल्लाणकारणुत्तमतत्तकणयकलससरिससंठाण ! / कंठट्ठियकलकुंतलनीलुप्पलकलिय तुज्झ नमो // 550 // आइसर सोईसरलयगयमणलक्खलक्खियसरूव ! / भवकूवपडिअजंतुत्तारण जिणनाह ! तुज्झ नमो // 551 // कल्याणस्य कारणं यत् उत्तमं तप्तं कनकं सुवर्ण तस्य यः कलशस्तेन सदृशं संस्थानं आकारो यस्य तत्सं० हे कल्याणकारण संस्थान ! पुनः कण्ठे स्थिता ये कला-मनोहरा कुन्तलाः-पञ्चममुष्टिसम्बन्धिकेशास्त एव नीलोत्पलानि तैः कलितो- युक्तस्तत्सं० हे कण्ठस्थित० कलित तुभ्यं नमः, कलशस्य कण्ठे नीलोत्पलानि ज्ञेयानि // 550 // हे आदीश्वर ! पुनर्योगीश्वराणां लयं गतानि-लीनतां प्राप्तानि यानि मनोलक्षाणि तैलक्षितं स्वरूपं यस्य सः तत्सम्बुद्धौ हे योगीश्वरलयगत० स्वरूप ! पुनर्भवकूपे पतितान् जन्तून् उत्-ऊद्धं तारयतीति भवजन्तूत्तारणस्तत्सं० हे भव० ! जिननाथ तुभ्यं नमः // 551 // ५५०-अत्र जिनेश्वरसम्बन्धिन्याकारे कल्याणकारणोत्तमतप्तसुवर्णकलशसादृश्यवर्णनादुपमा, कण्ठस्थितमनोहरकेशेषु नीलोत्पलाभेदारूपकञ्चालङ्कारौ / ५५१-अत्र पूर्वद्धि वृत्त्यनुप्रासक्छेकानुप्रासौ. भवे संसारे जन्मपरम्परायां वा कृपत्वारोपापकमलङ्कार उत्तराद्धेऽवसेयः / " भवः क्षेमेशे संसारे सत्तायां प्राप्ति जन्मनोः” इति मेदिनीकोशाद्भवशब्दस्य तदुभयार्थवाचकत्वमवसेयम् /