________________ 288278292 सिरिमरुदेवासामिणिउदरदरीदरिअकेसरिकिसोर ! / घोरभुयदंडखांडियपयंडमोहस्स तुज्झ नमो // 548 // इक्खागुवंसनृसण गयदूसण दूरियमयगलमइंद!। चंदसमवयण विसियनीलुप्पलनयण तुज्झ नमो // 549 // श्रीमरुदेव्याः स्वामिन्याः उदरमेव दरी-गुहा तस्यां अदरितो निर्भीकः केशरिकिशोर इव सिंहवाल इव श्रीमरु० तत्सम्बोधने हे श्रीमरुदेवा० ! अत्र 'दरियत्ति दृप्तो हृष्ट इत्यर्थः घोरौ-दारुणौ यौ भुजदण्डौ ताभ्यां खण्डितः प्रचण्डो मोहो येन स तस्मै तुभ्यं नमः // 548 // हे इक्ष्वाकुवंशभूषण ! पुनः गतानि दूषणानि यस्मात् स गतदूषणस्तत्सं० हे गतदूषण ! पुनः दुरितानि-पापान्येव मदकला-मदोत्कटगजास्तेषां वारणे मृगेन्द्रसिंह इव दुरितमदकलमृगेन्द्रस्तत्सं० हे दुरित० पुनश्चन्द्रेण समं तुल्यं वदनं--मुखं यस्य स चं० तत्सं० हे / चन्द्रसमवदन! पुनः विकसिते ये नीलोत्पले नीलकमले तद्वन्नयने नेत्रे यस्य तत्सं० हे विकसित नयन तुभ्यं नमः॥५४९॥ ५४८-अत्र "उदर दरी दरिअ" इत्यत्र वृत्त्यनुप्रासः, “केसरि किसोर" इत्यत्र छेकानुप्रासः / ५४९-अत्र ऋषभदेवस्य मृगेन्द्रसादृश्यं प्रति दुरितेषु मदकलत्यारोपस्य कारणतया परम्परितोपमालङ्कारः, तदीयवदने चन्द्रसादृश्यवर्णनादथो पुनरुपमालङ्कारः / 2 52682