________________ वालकता सिरिसिरि 3 // 102 // सिरिरिसहेसरसामिय ! कामियफलदाणकप्पतरुकप्प ! / कंदप्पदप्पगंजण ! भवभंजण देव ! तुज्झ नमो // 546 // सिरिनाभिनामकुलगरकुलकमलल्लासपरमहंससम / असमतमतमतमोभरहरणिक्कपईव ! तुज्झ नमो // 547 // कल्प:- कल्पवृक्षतुल्यः तत्सम्बोधने हे कामितफलदानकल्पतरुकल्प ! पुनः कन्दर्पस्य-कामस्य यो दर्पः--अभि- IP मानस्तस्य गजनो मर्दकस्तत्सं० हे कंदर्पदर्पगंजन ! पुनः हे भवभंजन ! हे देव ! तुभ्यं नमः॥५४६॥ श्रीनाभिनामा यः कुलकरस्तस्य यत्कुलं तदेव कमलं तस्योल्लासे-विकासने परमः--प्रकृष्टो हंसः सूर्यस्तत्समः-- तत्तुल्यस्तत्सं० हे नाभि० पुनः न विद्यते सम-तुल्यं यस्य तत् असमं उत्कृष्टमित्यर्थः अतिशयेन असमं असमतमं | इदृशं यत्तमः--अज्ञानं तदेव तमोभरः अन्धकारप्राग्भारस्तस्य हरणे एकः अद्वितीयः प्रदीपः असम० प्रदीपस्तत्सं० हे असम० तुभ्यं नमः // 547 // ५४६-अत्र ऋषमेश्वरस्वामिनि कामित फलदायकत्वेन साधयण कल्पतरुसादृश्यवर्णनादुपमा, "कंदप्प दप्प" इत्यत्र च्छेकानुप्रासश्चाल कारौ / ५७-परम्परितरूपकमलङ्कारः / // 102 //