________________ कुमरोऽवि हरिसवसओ पंचंगपणामलीढमहिवीढो। सिरसंठियकरकमलो रिसहजिणिंदं थुणइ एवं // 544 // सिरिसिद्धचक्कनवपयमहल्लपढमिल्लपयमय जिणिंद / असुरिंदसुरिंदाचियपयपंकय नाह ! तुज्झ नमो // 545 // तनिभृत--यथा स्यात्तथाऽतिनिश्चलदृष्ट्येत्यर्थः प्रेक्षते--पश्यति // 543 / / कुमारोऽपि हर्षवशात पश्चांगप्रणामेन लीढं-आश्लिष्ट महीपीठं येन स तथा, शिरसि--मस्तके संस्थिते करकमले यस्य एवंविधा-सन् एवं वक्ष्यमाणप्रकारेण ऋषभजिनेन्द्रं स्तौति // 544 // श्रीसिद्धचक्रे यानि नव पदानि तेषु महत् यत् प्रथमं पदं तत्स्वरूपमस्येति श्रीसिद्धचक्रनवपदमहाप्रथमपदमयस्तत्सम्बुद्धौ हे श्री० ! हे जिनेन्द्र ! पुन:-असुरेन्द्राः-चमरवल्याद्याः सुरेन्द्राः-सौधर्मेशानादयः उपलक्षणान्नागेन्द्रादयोऽपि ग्राह्यास्तैरचिते पूजिते पदपंकजे- चरणकमले यस्य तत्सं० हे असुरेन्द्र सुरेन्द्राचिंतपदपंकज ! हे नाथ ! तुभ्यं नमः // 545 // हे ऋषभेश्वरस्वामिन् ! तथा कामितफलदाने वाञ्छितफलप्रदाने कल्पतरु ५४४-अत्र करे कमलतादात्म्यारोपाद्रूपकमलङ्कारः, "रूपक रूपितारोपो विषये निरपह्नवे" इति साहित्यदर्पणे तल्लक्षणस्मरणात् / ५४५-अत्र जिनेश्वरचरणे पङ्कजसादृश्यवर्णनात् उपमालङ्कारः।