________________ आवंति तओ लोया सपमोया जिणहरस्स दारंमि। अणउग्घडिए तंमिवि पुणोवि गच्छंति सविसाया // 527 // तं जिणहरस्स दारं केणवि नो सक्कियं उघाडेउं / किंतु कओ बहुएहिंवि उग्घाडो निययकम्माणं // 528 // तदनन्तरं लोकाः सप्रमोदाः-सहर्षाः सन्तो जिनगृहस्य द्वारे आयान्ति-आगच्छन्ति, अपिः पादपूरणे, तस्मि न्द्वारेऽनुद्घटिते सति सह विषादेन वत्तन्ते इति सविषादाः सन्तः पुनरपि गच्छन्ति स्वस्वस्थानम् // 527 // IP तजिनगृहस्य द्वार केनापि उद्घाटयितुं न शक्तं न समर्थीभूतम्, किन्तु बहुभिरपि लोकनिजककर्मणां 3 18 स्वकीयकर्मणां उद्घाटः कृतः॥ 528 // ५२७-अत्र लोकानां जिनभवनद्वारागमने कमपि कारणविशेषममि व्यजयितुं कविना "सपमोया" टू: इति पद प्रयुक्तमिति द्विशेषणस्य साभिप्रायतया परिकरालङ्कारः, तल्लक्षण च प्रागुदीरितमवसेयम् / ५२८-अत्र समागतजनानामिष्यमाणजिनभवन द्वारोद्घाटन विपरीत निजकमोद्घाटन सम्प्राप्ते विषादननामालङ्कारः "इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विपादनम् / दीपमुद्योजयेद्यावन्निर्वाणस्तावदेव सः" इति चन्द्रालोके तल्लक्षणोदाहरणस्मरणात् /