________________ * सिरिसिरि वालकहा *******A भावो वि मणो विसओ मणं च अइदुज्जयं निरालंयं / तो तस्स नियमणत्थं, कहियं सालंबणं झाणं // 21 // आलंयणाणिजइविहु बहुप्पयाराणि संति सत्थेसु / तहविहु नक्पयझाणं, सुपहाणं बिति जगगुरुणो // 22 // अरिहंसिद्धायरिया, उज्झाया साहुणो असम्मत्तं / ... नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं // 23 // . भावोऽपि मनोविषयो मनो गोचरोऽस्ति, मनश्च निरालम्बम्-आलम्बन रहितं सत् अतिदुर्जयम्-अतिशयेन, दुर्जयं विद्यते, ततस्तस्मात्कारणात् तस्य मनसो नियमनाथं वशीकरणार्थ सालम्बनम्-आलम्बन सहित ध्यानं कथितम् // 21 // यद्यप्यालम्बनानि शास्त्रेषु बहुप्रकाराणि सन्ति तथापि हु इति निश्चयेन जगद्गुरवः श्रीजिनेन्द्रा / नवपदध्यानं सुतरां प्रधानमालम्बनं ब्रुवन्ति // 22 // 20. भावो भावना, अनुरागविशेषः, न पुनर्नैयायिकप्रसिद्धः संस्कार विशेषः, वैयाकरणाभिमतो व्यापारश्च / 21. सालम्बनध्यानस्य मनोनियमन हेतुत्वप्रतिपादनात् काव्यलिङ्गमलङ्कारः / 22. णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासः // XTA**