________________ सो धम्मो चउभेओ उवइहो सयलजिणवरिंदेहि / दाणं सीलं च तवो, भावोऽवि. अतस्सि मे भेया // 18 // तत्थ विभावेण विणा, दाणं नहु सिद्धिसाहणं होई / सीलं पि भाववियलं, विहलं चिय होइ लोगंमि // 19 // भावं विणा तणो विहु, भवोहवित्थारकारणं चेव / तम्हा नियमावुच्चिय सुविसुद्धो होइ कायव्वो // 20 // | जिनवरेन्द्रैः उपदिष्टः-कथितः, तानेव भेदानाह-दानं 1 शील 2 तपः 3 भावः 4 अपि चेति समुच्चये, IN तस्य धर्मस्य इमे चत्वारो भेदाः॥१८॥ तत्रापि भावेन विना दानं सिद्धसाधक-मोक्षदायकं न भवति, हुः-निश्चये, शीलमपि भाव विकलं12 भावरहितं सत् लोके विफलं-निष्फलमेव भवति, चियेत्यवधारणे // 19 // भावं विना तपोऽपि भवौघस्य भवप्रवाहस्य-भवसमूहस्य वा यो विस्तारस्तस्य कारणमेवास्ति-एतावता भवभ्रमणकारणं नतु मुक्तिकारण मित्यर्थः, तस्मात् ! कारगात् निजभाव एव सुतरां विशुद्धो-निर्मलः कर्तव्यो भवति, कर्तुयोग्योऽस्ति / / 20 // 18. " चउमेमो" इत्यनेन चतुर्वेव दानशीलतपोभावेषु पर्याप्त्या धर्मन्यमवसितं भवति / 19. पूर्वार्द्ध णकारस्य उत्तरार्द्ध लकारस्यासकृदावृत्या वृत्त्यनुप्रासोऽलङ्कारः /