________________ संतमणोरहतुंग उत्तमनरचरियनिम्मलविसालं / दायारसुजसधवलं रविमंडलदलिअतमपडलं // 492 // तम्मझे रिसहेसरपडिमा कणयमणिनिम्मिआ अस्थि / तिहुअणजणमणजणिआऽऽणंदा नवचंदलेहव्व / / 493 // तं सो खेयरराया निच्चं अच्चेइ भत्तिसंजुत्तो। लोओऽवि सप्पमोओ नमेइ पूएइ झाएइ // 494 // यच्चरित-आचारस्तद्वन्निर्मलं विशालं च-विस्तीर्ण तथा दातुर्यत् सुष्टु-शोभनं यशस्तद्वद्धवलं, पुनः रविमण्डलंसूर्यमण्डलं तद्वत् दलित-खण्डितं तमः-पटलं अन्धकारवृन्दं येन तत् / / 492 // तन्मध्ये-तस्य मन्दिरस्य मध्ये कनकमणिभिः-स्वर्णरत्ननिर्मिता-रचिता ऋषभेश्वरस्य प्रतिमा-मूर्तिरस्ति, कीदृशी? इत्याह-नवा-नवीना चन्द्रस्य लेखा इव त्रिभुवनजनानां-त्रलोक्यलोकानां मनस्सु जनित-उत्पादित आनन्दो-हर्षों यया सा ईदृशी अस्ति // 493 // स खेचराणां-विद्याधराणां राजा खेचरराजो भक्त्या संयुक्तः सन् तां जिनप्रतिमां नित्यं अर्चयति-पूजयति, लोकोऽपि--नगरवासिजनोऽपि सह प्रमोदेन -हर्षेण वर्तते इति सप्रमोदः सन् तां नमति ४१.२-अत्र जिनवरभवने सज्जनमनोरथसारश्यस्य तुङ्गत्वेन साधर्येण वर्णनादुपमालङ्कारः / ४९३–प्रतिमायां चन्द्रलेखासादृश्यादुपमा / ४९४-स्पष्टम् / /