________________ 199495 सिरिसिरि बालकहा तो बब्बरसुहडेहिं विहिओ सरमंडवो गयणमग्गे / तहवि न लग्गइ अंगे इक्कोवि सरो कुमारस्स // 449 // कुमरसरहिं ताडिअदेहा ते बब्बराहिवइसुहडा / केवि हु पडंति केवि हु भिडंति नासंति केवि पुणो // 450 // महकालोवि नरिंदो मिल्हइ सयहत्थियं सहत्थेणं / सोवि न लग्गइ ओसहिपभावओ कुमरअंगंमि // 451 // | कुर्वन्नित्यर्थः, नरेन्द्रस्य-राज्ञः केतुं-पुरोवर्तिध्वजं पातयति // 448 // ततो बबरदेशाधिपसुभटैगंगनमार्गे आकाशमार्गे शराणां-बाणानां मण्डपो विहितः कृतः, तथापि कुमारस्य अङ्गे एकोऽपि शरो न लगति // 449 // कुमारस्य शरैम्ताडितो देहो येषां ते एवं विधास्ते बर्बराधिपते सुभटाः केपि पतन्ति, केऽपि च ' भिडन्ती'ति अन्योऽन्य शरीरसंस्पर्शेन एकत्रीभवन्ति, केपि पुनर्नश्यन्ति पलायन्ते // 450 // महाकालोऽपि नरेन्द्रो-राजा स्वहस्ते भवं सौवहस्तिकं-शस्त्रविशेष स्वहस्तेन मुञ्चति, सोऽपि शस्त्रविशेषः औषधिप्रभावतः कुमारस्य अङ्गेन लगति // 451 // ४४१-अत्र बर्बराधिपति सुमट प्रक्षिप्तानां बाणानां कुमारशरीरस्पर्शसम्बन्धेऽपि तदसम्बन्धवर्णनात् सम्बन्धेऽसम्बन्धातिशयोक्तिरलङ्कारः / 4.0 स्पष्टम् / ४११--महाकालनरेन्द्रस्वहस्तप्रक्षिप्तबाणस्यापि कुमारशरीरास्पशेने विद्यासाधकमहापुरुष प्रदत्तौषधे महाप्रभावो वणितो भवति / S teg