________________ धवलो भइ-भो भो खयंमि किं कुणसि खारपक्खेवं ? / किं वा दवाणुवरि फोउयदाणक्कियं कुणसि ? // 441 // तो कुमरो भणइ कुडं अजवि जइ कोऽवि तुझ सव्वस्सं / वालेइ तस्स किं देसि ? मज्झ साहेसु तं सव्वं // 442 // जल्पयति, अहो धवल ! त्वं कथय इदानी- साम्प्रतं ते सुभटाः कुत्र गता ? येभ्यस्त्वया दीनाराणां कोटिदत्ता // 440 // तदा धवलो भणति भो भो क्षते-प्रहतेऽङ्गे क्षारस्य प्रक्षेप किं करोषि-कथं विदधासीत्यर्थः, वाऽथवा | दग्धानामुपरि स्फोटकदानक्रियां किं करोषि ? इदमयुक्तं भवादृशानामित्यर्थः॥४४१ // ततः-तदनन्तरं कुमारः स्फुट-प्रकटं भणति, भो श्रेष्ठिन् ! अद्यापि यदि कोऽपि तव सर्वस्वं वालयति तर्हि तस्मै त्वं किं ददासि ? मह्यं तत् सत्यं कथय // 442 // ४४१--अत्र "खयंमि कि कुणसि स्वारपवखेपं" इति लोकप्रवादानुकृते लोकोक्तिरलङ्कारः "लोक प्रवादानुकृति लोकोक्तिरिति भण्यते / सहस्व कतिचिन्मासान् मिलयित्वा विलोचने" इति चन्द्रोलोके तल्लक्षणोदाहरणस्मरणात् किञ्च दग्धानामुपरि स्फोटकदानक्रियां किं करोषीत्युक्त्याः स्फोटकदानवत् तव वचनं मे हृदयदाहमित्युपमायां पर्यवसानात् "तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम्" इत्यादिवन्निदर्शनालङ्कारः "अभवन् वस्तुसम्बन्धउपमा परिकरपकः / निदर्शना” इति काव्यप्रकाशे तल्लक्षणस्मरणात् / ४४२-स्पष्ठम् /