________________ सिरिसिरि वालकहा बहुकणयकोडिगाहिअकयाणगो णेगवाणिउत्तेहिं / सहिओ सो सत्थवाई भरुयच्छे आगओ अत्थि // 379 // जाओ य तत्थ लाहो पवरो सो तहवि दव्वलोहेणं / परकूलगमणपउणो पउणइ बहुजाणवत्ताई // 380 // मज्झिमजुंगो एगो सोलसवरकूवएहिं कयसोहो। चत्तारि य लहुजुंगा चउचउकूवेहिं परिकलिआ // 381 // येन स तथोक्तः, पुनरनेकैर्वणिकपुत्रैः सहितः स सार्थपतिः--सार्थवाहो भृगुकच्छे नगरे आगतोऽस्ति // 379 // तत्र च भृगुकच्छे प्रवरः-प्रकृष्टो लाभो जातः, तथापि स सार्थपतिः द्रव्यलोमेन परकूले-समुद्रपरतटे गमनाय प्रवणः--तत्परः सन् बहूनि यानपात्राणि--प्रवहणानि प्रगुणयति -सज्जानि करोति // 380 // तेषु यानपात्रेषु मध्ये एको मध्यमजुङ्गः--पोतोऽस्ति, कीदृशः ?--षोडशभिः वरैः -प्रधानः कूपकैः--कपस्तम्भैः कृता शोभा यस्य | सः, च पुनश्चत्वारो लघुजुङ्गाः सन्ति, कीदृशाः ?-चतुर्भिश्चतुर्भिः कूपस्तम्भैः परिकलिता-युक्ताः // 381 // ३.९-स्पष्टम् / ३८०-उत्तरार्द्ध णकारम्यासकदावृत्त्या वृत्त्यनुप्रासोऽलकार : 3.1-- चउचउ इत्यत्र छेकानुप्रासः / // 73 //