________________ जलतारिणी अ एगा परसत्यनिवारिणी तहा बीया / एयाउ ओसहीओ तिधाउमढियाउ धारिज्जा // 370 // कुमरेण समं सो विज्जसाहगो जाइ गिरिनियंबंमि / ता तत्थ धाउवाइअपुरिसहि एरिसं भणिओ // 371 // देव ! तुह दंसिएणं कप्पपमाणेण साहयंताणं / केणावि कारणेणं अम्हाण न होइ रससिद्धी // 372 // दत्त्वा एतद्भणितम्-उक्तम् // 369 / / किं भणितमित्याह-अनयोरोषध्योर्मध्ये एका औषधी जलतारणी वर्तते, तथा द्वितीया औषधी परस्य-शत्रोः शस्त्रस्य निवारणी अस्ति, एते द्वे औषध्यौ त्रयाणां धातूनां समाहारस्त्रिधातु स्वर्णरूपताम्रात्मकं धातुत्रयं तत्र 'मढियाओत्ति प्रक्षिप्ते विधाय त्वं धारयेः॥ 370 // स विद्यासाधकः पुमान् कुमारेण समं-सह यावद्गिरिनितम्बे-पर्वतकटके याति तावत्तत्र धातुवादिकपुरुषैरीदृशं भणितः-ईदृग् वचनमुक्तिमित्यर्थः // 371 // हे देव ! त्वद्दर्शितेन कल्पप्रमाणेन साधयतां-रससिद्धिं कुर्वतां अस्माकं केनापि कारणेन ३७०--अत्र तदोषधिद्वयोपयोगविधिः प्रदर्शितः / ३७१--अत्र विद्यासाधकपुरुषस्य कुमारसाहित्यस्य सहृदयजनमनोरन्जनस्य प्रतिपादनात् सहोक्तिरलङ्कारः / ३७२-अत्र कल्पप्रमाणेन रससिद्धिं कुर्वतामपि रससिद्धयभावात् हेतो सत्यपि फलाभावसत्वात् विशेषोक्तिरलङ्कारः "सति हेतौ फलाभावो विशेषो. क्तिस्ततो द्विधा" इति साहित्यदर्पणे विश्वनाथेन तल्लक्षणकरणात् /