________________ ता चारुचंपयतले आसीणं पवररुवनेवत्थं / एग सुंदरपुरिसं पिक्खइ मंतं च झायंतं // 364 // सो जाव समत्तीए विणयपरो पुच्छओ कुमारण / कोऽसि तुमं किं झायसि ? एगागी किं च इत्थ वणे ? 365 // तेणुत्तं गुरुदत्ता विज्जा मह अत्थि सा मए जविआ। परमुत्तरसाहगमंतरेण सा मे न सिज्झेह // 366 // कोकिलानां कलरवैर्मधुरध्वनिभिः (रम्यां)॥ 363 // तावच्चारु:-मनोज्ञो यश्चम्पको--वृक्षविशेषस्तस्य तले आसीन-उपविष्टं पुनः प्रवरं--प्रधान रूपम्--आकृतिर्नेपथ्यं च -वेषो यस्य स तं ईदृशं एकं सुन्दरपुरुष मन्त्रं च ध्यायन्तं-जपन्तं प्रेक्षते // 364 // स पुमान् जापसमाप्तौ सत्यां विनयपरो-विनयकरणतत्परः सन् कुमारेण पुष्टः-त्वं कोऽसि ? किं ध्यायसि ? च पुनरत्र वने एकाकी किं किमर्थमित्यर्थः // 365 // तेन पुरूषेणोक्तं--मम गुरुदत्ता विद्याऽस्ति, सा मया जप्ता परं सा मे-मम विद्या उत्तरसाधकमन्तरेण-साहाय्यकारिपुरुषं विना न सिद्धयति // 366 // ३६४-स्पष्टम् / ३६५-अत्र विनयपरत्वमिति विशेषणं तस्मिन् पुरुषे प्रश्नौचितोद्योतनाथमिति साभिप्रायतया परिकरालङ्कारः। ३६६-गुरुदत्ताया विद्याया उत्तरसाधकं विना सिद्धयभावोऽपि सूचितः।