________________ तं सोऊण कुमारो सहसा सरताडिओव्व विच्छाओ / जाओ वलिऊण समागओ अ गेहमि सविसाओ॥ 338 // तं तारिसं च जणणी, टूण समाकुला भणइ एवं / किं अज वच्छ ! कोवि हु, तुह अंगे वाहए वाही? // 339 // नयो-राजपुत्र इव क एष याति !, एवं ग्रामीणेन पृष्टे सति नागरिको भणति-अहो एष नरवरस्य-राज्ञो जामाताऽस्ति // 337 // तन्नागरिकवचः श्रुत्वा कुमारः सहसा--अकस्मात् शरेण--बाणेन ताडित इव विच्छायो जातः, च पुनः | सविषादः सन् तत एव वलित्वा गृहं समागतः // 338 // तदा जननी -माता तं कुमारं तादृशं विच्छायवदनं दृष्ट्वा समाकुला--व्याकुला सती एवं भणति-हे वत्स ! अद्य तवाङ्गे कि कोऽपि व्याधिः-रोगो बाधते ?-पीडां उत्पादयति, चतुशब्दौ पादपूरणे // 339 // वा अथवा हे आखण्डलसदृश-हे इन्द्रतुल्य ! हे वत्स ! तवाज्ञा किं ३३८--अत्र विच्छायत्व धर्मनिमित्तेन कुमारस्य शरताडिततादात्म्यसंभावनादुत्प्रेक्षाऽलङ्कारः, "अन्यधर्मसम्बन्धनिमित्ते नान्यस्याम्यतादात्म्यसंभावन मन्प्रेक्षा" इति कुवलयानन्दः "विषयिनिष्ठ धर्मसम्बन्धप्रयुक्तं विषयर्मिकं तादात्म्य संसर्गेण विषयि विधेयकमाहार्य संभावनमुत्प्रेक्षेति पर्यवसितम्" इत्यलङ्कारचन्द्रिका / ३३९--स्पष्टम् /