________________ तं रुयमाणिं दटुं, पेडयपुरिसा भणंति करुणाए / भद्दे ! कहेसु अम्हं, काऽसि तुमं कीस बीहेसि ? // 301 // तीए निअबंधूण व, कहिओ सव्वोऽवि निययबुत्तंतो। तेहिं च सा सभइणिव्व सम्ममासासिआ एवं // 302 // यस्याः सा निरुपमरूपा, पुनः कीदृशी? महार्याणि -बहुमूल्यान्याभरणानि-आभूषणानि यस्याः सा, पुनः अबला, न विद्यते बलं यस्याः सा स्त्रीत्वादल्पबलेत्यर्थः, पुनर्बालः शिशुः एकः सुतो यस्याः सा तथोक्ता॥३०॥ तदा पेटकपुरुषाः कुष्ठिवृन्दमनुष्यास्तां राज्ञी रुदतीं दृष्ट्वा करुणया-अनुकम्पया भणन्ति, किं भणन्तीत्याह * हे भद्रे ! त्वमस्मभ्यं कथय त्वं कासि ? तथा कथं बिभेषि-भयं प्राप्नोषि?॥३०१॥ ततस्तया राज्या निजबन्धुभ्यो-निजभ्रातृभ्य इव सर्वेऽपि निजकवृत्तान्तः कथितः, तेभ्य इति शेषः, तैश्च सा राज्ञी स्वभगिनी 8 इव-निजस्वसा इव एवं-वक्ष्यमाणप्रकारेण सम्यग् आश्वासिता // 302 // कथमित्याह-हे भगिनि ! त्वं ३०१-अत्र पेटकपुरुषाणां करुणातस्तदीयस्वरूपभयकारणादिजिज्ञासां प्रति रुदत्या स्तस्था दर्शनस्य कारणतया कथनात् वाक्यार्थहेतुकं काव्यलिङ्गम् / ३०२-समाश्वासनकर्मत्वेन साधम्यण कमलप्रभायां तस्यां तदीयभगिनोसादृश्यवर्णनात् उपमानो पमेयोपमावाचकसाधारणधर्माणां चतुर्णामुपमाङ्गानामुपादानात् पूर्णोपमाऽलङ्कारः /