________________ जारिसमेरिस असमं-जसेण चरिएण जीवयंतीए / जायं मज्झ इमीए, धूयाइ कलंकभूयाए // 272 // एवं चिंतंती रुप्पसुंदरी दुक्खपूरपडिपुण्णा। करुणसरं रोयंती. भणेइ एयारिसं वयणं // 273 // धिद्धी अहो अकजं, निवडउ वजं च मज्झ कुच्छीए / जत्थुप्पन्नावि विय-वखणावि ही एरिसं कुणइ // 274 // अयोग्येन चरितेन-आचरेणन अनया कलङ्कभूतया पुत्र्या जीवन्त्या मम जातं-समुत्पन्नम् // 272 // एवममुना प्रकारेण चिन्तयति, दुःखपूरेण--दुःखभरेण प्रतिपूर्णा भृता रूप्यसुन्दरी राज्ञी करुणोदीन: स्वरो यत्र कर्मणि तत् करुणस्वरं यथा स्यात्तथा रुदती एतादृशं वचनं भणति // 273 // अहो इत्याश्चर्ये, एतकार्य धिग् धिग् अस्तु, च-पुनः मम कुक्षौ उदरे वजं निपततु, यत्र -यस्मिन् कुक्षौ उत्पन्नाऽपि पुनर्विचक्षणाऽपि हीति खेदे ईदृशमकार्य करोति // 274 / / तद्वचनं श्रुत्वा मदनसुन्दरी यावत् रूप्यसुन्दरी जननी निजमातरं २७२--असमज सचरितस्य मरणं वरम “सम्भावितस्य मरणं नरकादतिरिच्यते” इति स्मरणात्, २७३--अत्र दुःखे पूरत्वस्य प्लवत्वस्यारोपात् दुःखपूरप्लावितेत्यर्थः करणीयः, पूरयति कुलयोर्मध्य मिति पूरपदव्युत्पत्तेर्दर्शनात् "अम्बुवृद्धौ पूरः प्वोऽपि च" 4153 // इत्यमिधानचिन्तामणिः / २७१--अत्र “अकज्ज" " बज्ज" इत्यत्र जज शब्दस्य सकृदावृत्त्या छेकानुप्रासोऽलङ्कारः /