________________ बालकहा सिरिसिरि // 52 // इओ य-धूयादुहेण सा रुप्पसुंदरी रूसिऊण सह रन्ना। निअभायपुण्णपालस्स, मंदिरे अच्छइ ससोया // 264 // वीसारिऊण सोअं सणिअं जिणुत्तवयणेहिं / जग्गिअचित्तविवेआ समागया चेइयहरंमि // 265 // जा पिक्खइ सा पुरओ, तं कुमरं देववंदणापउणं / निउणं निरुवमरूवं, पच्चक्खं सुरकुमारंव // 266 // भावार्ची-भावपूजां कुर्वन्तः उपयुक्ताः सन्तो देवान् वन्दन्ते, अङ्गाने प्रधानेऽस्यामिति विग्रहः // 263 // इतश्च 6 पुत्रीदुःखेन सा रूप्यसुन्दरी राज्ञी राज्ञा सह रुषित्वा-रोपं कृत्वा निजभातुः पुण्यपालस्य मन्दिरे सह शोकेन | वर्तते इति सशोका सती अवतिष्ठते // 264 // - सा रूप्यसुन्दरी शनैः शनैः शोकं विस्मार्य-निराकृत्य जिनोक्तवचनै र्जागरितश्चित्ते विवेको यस्याः सा एवंविधा सती चैत्यगृहे-जिनमन्दिरे समागता // 265 // सा रूप्यसुन्दरी यावत् पुरतो-ऽग्रतः कुमार प्रेक्षते २६४--अत्र रूप्यसुन्दाः पुण्यालगृहागमने पुत्रीदुःखप्रयुक्तरोषस्य कारणतयोपादानात् काव्यलिङ्गमवसेयम् / २६५-अत्र रूप्यसुन्दर्याश्चितविवेकजागरणे जिनोक्तवचनकरणकशोकविस्मारणस्य कारणतया काव्यलिङ्गमलङ्कारः। २६६-अत्र निरुपमसौन्दर्यशालितया कुमारे श्रीपाले प्रत्यक्ष सुरकुमारसादृश्यस्य वर्णनात् उपमालङ्कारः / // 52 //