________________ 1-4222 ता वच्छ ! तुमं वहुया-सहिओ जय जीव नंद चिरकालं / एसच्चिय जिणधम्मो, जावजीवं च मह सरगं // 261 // जिणरायपायपउमं, नमिऊणं बंदिऊण सुगुरुं च / तिनिवि करंति धम्म, सम्मं जिणधम्मविहिनिउणा // 262 // ते अन्नदिणे जिणवर-पूअं काऊण अंगअग्गमयं / भावच्वयं करता, देवे वंदति उवउत्ता // 263 // तस्माद् हे वत्स ! त्वं वध्वा सहितश्चिरकालं-बहुकालं यावत् जय-सर्वोत्कर्षेण वर्तस्क, पुनश्चिरकालं जीव-आयुष्मान भव, पुनः चिरं नन्द-समृद्धिमान् भव, च पुनः एष एव जिनधर्मों यावजीवं मम शरणमस्ति // 261 // ततस्ते त्रयोऽपि जननीपुत्रवधूलक्षणा जीवा जिनराजस्य-जिनेन्द्रदेवस्य पादपद्मं चरणकमलं नत्वा च पुनः सुगुरुं वन्दित्वा सम्यग् धर्म कुर्वन्ति, कीदृशास्त्रयः ? जिनधमविधौ निपुणा:-चतुराः // 262 // ते त्रयोऽप्यन्यस्मिन् दिवसे अङ्गाग्रमयीं जिनवरस्य पूजां कृत्वा, एतावता भगवतोऽङ्गपूजामग्रपूजां च विधाय, २६१-कुमारजनन्याः कमलप्रभायास्तस्या अपि यावज्जीवनं शरणीभूतजिनधर्माराधनोपदेशदानेन कृतज्ञता, पक्षपातराहित्यं च व्यज्यते / २६२-अत्र श्रीजिनराजपादे पद्मलादृश्यवर्णनादुपमा, पद्मपादाभिन्नतया नमनोपयोगात् परिणामोवाऽलङ्कारः "परिणामः क्रियाथश्चेद् विषयी विषयात्मना" इति चन्द्रालाके तल्लक्षणस्मरणाम् / २६३--स्पष्टम् /