________________ वालकहा सिरिसिरि // 47 // सव्वेसिं संजायं, अच्छरिअं तस्स दंसणे जाव / ताव गुरू भणइ अहो, एयस्स किनेयमच्छरिअं? // 238 // इमिणा जलेण सब्बे, दोसा गहभूअसाइणीपमुहा / नासंति तक्खणेणं, भविआणं सुद्धभावाणं // 239 // / तादृगूपस्य तस्य-श्रीपालस्य दर्शने सति यावत् सर्वेषां लोकनामाश्चर्य सञ्जातं तावद्गुरुभणति, अहो 4 लोकाः ? एतस्य किमेतदाश्चय ?, न किमपीत्यर्थः // 238 // अनेन शांतिजलेन शुद्धभावानां-निर्मलमनः परिणामानां भव्यानां गृहभूतशाकिनीप्रमुखाः सर्वेऽपि दोषास्तत्क्षणेन-तत्कालमेव नश्यन्ति-प्रणाशमुपयान्ति // 239 // क्षयकुष्ठज्वरभगन्दरभृताः-क्षयकुष्ठादिरूपा इत्यर्थः, तथा वाता-वायुरोगाः पुनः विसूचिकादिका २३८-अत्रोत्तरार्द्ध " अहो पयस्स" इत्यत्र " पदोतोः स्वरे" 117 // इत्यनेन निषेधात् सन्धिन भवति, पूर्वार्द्ध “सब्वेसि संजायं" इत्यत्र सकारस्यासदाच्या वृत्त्यनुप्रासोऽलङ्कारः / २३९-अत्र सिद्धचक्रपूजनाभिषेकजलसम्पर्केण तत्क्षणं ग्रहभूतशाकिनीप्रमुखदोषविनाशासम्बन्धेऽपि तत्सम्बन्धवर्णनादसम्बन्धे सम्बन्धाक्तिशयोक्तिरलङ्कारः, तल्लक्षण मुक्तं प्रागवसेयम् / उत्तराद्ध णकारस्य : त्रिरावृत्ते वृत्य नुप्रासालङ्कारः, तयो नैर पेक्ष्येण समवस्थानात् तदुभयसंसृष्टिश्चालङ्कारः “मिथोऽनपेक्षयेतेषां स्थितिः संसृष्टिरुच्यते” इति तल्लक्षणस्मरणात् /