________________ | प्रतिसमयं 'जीव देव ! इति ब्रुवाणैः तत्पुरतः, न प्रतिस्खलितव्यं रात्रिप्रहरव्येऽपि तन्मुखनिर्गतं वचः। न चैतदस्माभिर्धनलवलिप्सया प्राणाऽत्ययेऽपि कर्तव्यम् / तथा कृष्यादावपि न मनो मनागप्यस्माकं प्रतिवर्तते / यतःकृष्यादीननुतिष्ठद्भिः सोढव्यं शिशिरसमये तुहिनकणनिकरसन्मिश्रसमीरजनितोत्कम्पतया दन्तवीणां वादयद्भिः शीतं, मर्षितव्यं ग्रीष्मकाले मुर्मुरायमाणचण्डमार्तण्डकिरणनिकरोपजनितमुखशोषतया हाहेति कुर्वद्भि रुष्णम्, तितक्षितव्यः प्रावृषि सजलजलधरधीरगर्जितरवषधिरीकृतकर्णकोटरतया 'किमेतद् ?' इति व्यस्यद्भिनिशितशरसदृशधाराप्रपातः / एतदपि पूर्वाऽननुभूतशीत-वाता-ऽऽतपादिदुःखतया दुष्करमिव प्रतिभाति, अंतोऽस्पप्रयासं वाणिज्यं कुर्वाणाः कालं नयाम इति / ___एवं चाऽवधार्य स्वशरीराऽलंकरणजातेन जग्राह विपणं भाटकेन, चकार तत्समीप एव सुकुमारोकाऽऽवासभवनं, पारेभे नानाप्रकारैर्भाण्डः कलाकौशलोपेततया जात्यवणिगिव व्यवहर्तुम् / अभ्यदा सुकुमारीकयाऽभिदधे-आर्यपुत्र ! यावत् त्वं सर्व दिन व्यवहरस्तिष्ठसि तावदहमेकाकिनी वासवेश्मनि न शक्नोमि स्थातुम्, अतो मम द्वितीयकं किञ्चिन् मानुषरूपं विनोदार्थमानय इति / ततो राज्ञाऽपि सत्यं ब्रूते वराकिनीयं, यैपा पूर्वमनेकचेटिकापरिवृतां दिनमतिवाहितवती साऽवश्यमेकाकिनी दुःखमास्ते, अतः किञ्चित् सहायं करोमीति संचिन्तयता हमार्गपतितः पीठसपी पङ्गुरदर्शि / अशा -% A