________________ मणिपति // 48 // समर्थयाऽभूयत / ततस्तस्याः स्वास्थ्यमाऽऽतोक्य भूयोऽपि प्रतस्थे महीपालः / क्रमेण चाऽतिभीषणश्चापदनिनादश्रवणोपहितरोमाञ्चो तामतीत्य महाऽटवीं प्रापद् वाराणसीम् / सत्र च गतमात्र एव तां ताशीमदृष्टपूर्वामाऽऽत्मनोऽवस्थां समवलोक्य पर्यचिन्तयत्-अहो!! भवितव्यतायाः सामर्थ्य, यतो यत् स्वप्नेऽपि न संभाव्यते तदप्येतयाऽवलोकितं दृश्यते / तथाहि-क्व वयं तथा सकलसामन्त सुकुमारिशिरोमौलिमणिकिंकिणीकृतचरणसरसिरुहाः, करटिकरतटविगलदमन्दमदजललोलाऽलिकुलकलझंकारप्रवर्धमानमदगजस्कन्धाऽधिरूढाः, विधृतसकलकलाकलापाऽऽपूरितशशधरधवलातपत्राः, दोधूयमानमृणालनालतन्तुसि काकथातरुचिरचामरयुगलोपवीजिताः, अनेककरि-तुरग-रथ-भटसंकटातिविकटकटकाऽनुगताः, क्वेशी पृथग्जनोचिता- नकम्. ऽवस्था ? सर्वथा नास्ति कश्चिदप्यसायिह यमापदो नाभिभवन्ति, तथा च सूक्तं समाहतं यस्य करेविसर्पिभि-स्तमो दिगन्तेष्वाप नावतिष्ठते / / स एव सूर्यस्तमसाऽभिभूयते स्पशन्ति कंकालवशेन नाऽऽपदः // 1 // तदद्यापि यावत् प्रोणा धार्यन्ते तावदवश्यं किश्चित्कुर्वद्भिरासितव्यं, येन कालयापना विधीयते / तत्र न तावद्वयं सेवा कर्तुमुत्सहामहे, यतस्तां विदधद्भिरवश्यं सेव्यस्य भवितव्यं नीचर्पत्तिभिः, कर्तव्यानि पद्धभिचाहनि, विधातव्या तत्मियेण शत्रुणाऽपि सार्ध मैत्री, द्वेष्टव्या तत्प्रतिकूलवृत्तयः, सजनेनापि स्थातव्यं शुनेव | // 48 // ब SEAR)