SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ REA C-% माकुला विलोक्य प्रिये ! स्थिरीभव, आनयामि सलिलमचिराद् इति ब्रुवन्नेकस्य तरोरपस्ताच्छायायामुपवे. श्य सलिलमन्वेष्टुं स्वयमुपचक्रमे नानावनालीगुपिलगिरिवरनिर्जरेषु / ततो यदा न क्वचिजलाशयमासादितवान् तदा स्वभुजाशिरारुधिरेण पलाशपत्र पुटिकां कृत्वा स्वरितं समाययौ सुकुमारिकादेवीसमीपम् , अभिदधे च-भद्रे ! इंदं पयः समानीतमास्ते स्म, केवलं पल्वलोभवतयाऽतिकश्मलं कुथितं चेदं समीक्ष्यमाणायायास्ते जुगुप्सा भविष्यति, ततोऽक्षिणी निमील्य रसमनास्वादयन्त्या पिपासारोगापनयनायोषधमिव पातव्यमिति / __ततः सलिलनामश्रवणसमुच्छ्वसितहदया उपविश्य निमीलितनयनयुगला पपो तदम्बुबुद्ध्या भर्तृरुधिरं सुकुमारिका, बभूव स्वस्थमनाः, ततः पुनरपि तां पुरस्कृत्य चचाल नरपतिः स्वकीयगतिमुपहाय प्रियतमागतिवशाद् मन्दमन्दपदसंचारः / ततः पुनः कियन्तमतिक्रम्य देव्युवाच-आर्यपुत्र ! क्षुरक्षामकुक्षितया न शक्नोमि पदमपि चलितुमिदानीम्, अतः कुतश्चित् किञ्चित् समानीय वितीर्यता भोजनजातं यदि प्राणितया मया प्र. का योजनम् / ततोऽसौ नरपतिस्तया वचननोदितः प्रदेशान्तरमुपगम्य यथाऽसौ नेक्षते तथा स्वकीयमूरुमांसमसिपत्रिकया कर्तयित्वा पुनः शरा-रणिमथनसमुत्थिताऽऽशुशुक्षणौ स्वादं कृत्वा ढोकयामास, बभाषे च-भद्रे ! इदं स्वादु मांसमानीतमास्ते, भक्षयितुमर्हति देवी / ततस्तदादाय भतिं पिशितम् / नदपभोगाच पुनर्गमन SHOROTIYA
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy