________________ किनवटा तया काष्ठेषु वेगेन प्रक्षिप्तेषु भयादसौ / निर्जगार यवान् कौश्चः कथञ्चिद् दैवयोगतः // 985 // ततः स्वर्णकृता तेन दृष्ट्वा तान् भयसंभ्रमाद् / अचिन्ति पश्य कीदृशं मया पापमकार्यहो !! // 986 // अकारणे मया राज्ञो जामाताऽसौ विनाशितः / यतोऽतो जीवितं नास्ति भूपान् मेऽद्य निश्चितम् // तत् किं करोमि पापोऽह-मसमीक्षितकारकः / इदानीमथवा ज्ञातं भवामि व्रतवानिति // 988 // ततः स्वजीवितं त्रातु-मकार्षीत् सकुटुम्बकः / केशोल्लुचनमाश्वेव कुर्यात् किं न जिजीविषुः? // 989 // अत्रान्तरे मुनेः श्रुत्वा वृत्तान्तं स्वर्णकृत्कृतम् / प्रेषयामास नृन रोषान् नृपो वेगाद् ब्रुवन्नदः // 990 // रेरे तं स्वर्णकारं द्राग् बद्ध्वाऽऽनयत मेऽन्तिकं / छिनद्मि येन तस्याहं मूर्हानं मुनिघातिनः / / 991 // | यथाऽऽज्ञापयति स्वामी-त्युक्त्वा यावत् तदन्तिकं / जग्मुस्ते तावदद्राक्षु-स्तं कलादं व्रतस्थितम् // 992/4 ततो व्रतीत्यवद्ध्वैव ते प्राहुर्भद्र ! भूपतिः / त्वामाह्वयति सोवोच-दिदं यामः किमास्यते ? // 993 // इत्युक्त्वा सकुटुम्योऽपि तैः समं नृपतेः पुरः / गत्वा जगाद निर्भीको धर्मलाभोऽस्तु भूपते ! // 994 // तं दृष्ट्वाऽचिन्तयद् भूप-स्तबुद्धः कौशलं मनाक / अपेतकोप इत्युक्ति-भाषे विस्मिताऽऽननः // 3 सुगृहीतमिदं भद्र ! स्वया लिङ्गं तपस्विनां / कार्य जिजीविषुश्चेद् भो नान्यथा तेऽस्ति जीवितम् // तथेत्युक्त्या कलादोऽपि ततो भावेन तद्वतम् / प्रतिपद्य तपस्तेपे स्वकार्यस्य प्रसिद्धये // 997 // HASREALITERA