________________ प्रचेलतुः, क्रमेण च यावदर्धमार्ग प्राप्तौ तावश्चक्षुर्विकलमतिकरुणमारटन्त बनगहनमध्ये इततश्च बुभुक्षातुरतया भ्राम्यन्तं सिंहमालोकांचक्रतुः। ततस्तं दृष्ट्वा कनीयसा भ्रात्राऽभिधे-भ्रातः! अहमेतस्य केसरिणश्चक्षु रुद्घाटयामि, येनाऽयं वराकः स्वस्थीभवति ।महीयसाऽभाणि-भद्र ! एष तिर्यक विवेकविकलः, वुभुक्षितः क्रूरच सिंहकया-1 वर्तते, ततश्योद्घाटितमात्र एव चक्षुषि ममाऽयमुपकर्तेति विवेकविकलतया प्रथममावामेव भक्षयिष्यति, अतो यनकम् दि जिजीविषुस्ततोमा कार्षीरस्य चक्षुरुद्घाटनक्रियाम् / कनीयसाभिहितं-भ्रातः!, किमेवं ब्रूषे? किमिदानीमेव l विस्मृत उपाध्यायोपदेशोऽयं ?--यदुत 'विधातव्या दीनानाथादीनां कृपया व्याध्युपशान्तिरिति महीयसोक्तं| भद्र ! न विस्मृतोऽयं मयोपदेशः, केवलं नाऽयं कराऽऽत्मा केसरिरस्योपदेशस्य विषय इति / कनीयसोक्तं-ता| त ! भीरुरिव त्वमुपलक्ष्यसे एवं ब्रुवाणः, नहि 'परोपकारनिरताः सन्तः स्वार्थपोषणपरा भवन्ति, एष एव हि तेषां स्वार्थों यत्परार्थकरणम्, तथाहि-किं न श्रुतं तातेनेदं क्वचित् पठयमानं सुभाषितम् / | नम्रत्वेनोनमन्तः परगुणनुतिभिः स्वान् गुणान् ख्यापयन्तः, पुष्णन्तः स्वीयमर्थ सततकृतमहारम्भयत्नाः परार्थे / / क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान् दुर्जनान् दुःखयन्तः, सन्तः शश्वद्दयार्दाः स्वयमिव मुनयो वन्दनीया भवन्ति // 6 तद् भ्रातः ! एवं वराकं सिंहमीदृशं दुःखितमुपेक्ष्य गच्छता मम कृपया पादौ नाऽग्रतः वहतः, अतोऽवश्यमेव मयाऽस्य चक्षुरुद्घारयितव्यम्, 'यद्भागं तद् भविष्यति' / महीयसोक्तं--पदि वारितोऽपि नाऽस्मान् दुरध्यवसा छाग्रजनन