SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भिधाय शोभनेऽहन्यशीअथवा विद्यया विद्या नाहितापारगो तकंकुश घ्यायः' इत्यभिधाय शोभनेऽहन्यशठतया पठितुमारेभे // मणिपति-हा / ततश्च- विनयेन विद्या ग्राह्या पुष्कलेन धनेन वा / अथवा विद्यया विद्या नास्त्युपायश्चतुर्थकः // 752 // चरित्रम् // 35 // इति न्यायं स्मरन्तौ गुरुप्रवणताकरणपटीयसा विनयेन अल्पीयसा कालेन समस्तसंहितापारगौ तर्ककुश- सिंहकथा लौ महावैद्यौ बभूवतुः। अन्यदा भूयोऽपि उपाध्यायं प्रणम्य प्रावली पप्रच्छतुः-उपाध्यायः ! युष्मत्पादप्रसादेन विद्या वैद्यसंसद्योग्यता कियत्यप्यावयोरजनि, तदिदानी युष्मचरणसरसिरहपर्युपासनाविघ्नकारिणी गृहगमनं प्रतीच्छा मन्दभाग्यावावां विवशयति, अतो यदि भवदनुज्ञा भवति ततो गन्तुं समीहावह इति // ततस्तद्गुणपक्षपातोपजातस्नेहवशभवन्मन्युस्तम्भनगद्गदाऽक्षरमथुपरिप्लुतनयनयुगल आलपद् उपाध्यायः-'पुत्रौ ! गच्छतम्' इत्यप्रियवचनं न शक्नोमि गदितुं, 'मा गमतम्' इदमपि प्रस्थानविघ्नकारितयाऽप्रशस्तं क एव सकों ब्रूयाद् ? 'मत्समीप एव सेवां कुर्वाणो तिष्ठत' इत्ययाऽऽत्मभरित्वपिशुनं वर्तते, तथाऽपि हितचिकीर्षणां यत्पथ्यमप्रियमपि तदेवोपदेष्टव्यमित्यतो गच्छतं युवाम् / तत्र च-" न मोक्तव्यः शास्त्राभ्यासः, न लोधव्यमर्थ एवैकान्तेन, कर्तव्या महर्षीणां धर्मलोभेन चिकित्सा, विधातव्या दीना-ऽनाथ-कृपणादीनामपि करु. णया सर्वयत्नेन व्याध्युपशान्तिः, सर्वथा परोपकारनिरताभ्यां भवितव्यं " इत्युपदेशसारार्थ इति // ततस्तौ वैद्यकुमारो-'यदाऽऽज्ञापयति उपाध्यायः' इति उक्त्वा प्रणामपूर्वकं शोभनेऽहनि स्वपुरं प्रति ब-गजब %
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy