SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ततस्तयोरतिनम्रतया योग्यतामाऽऽकलय्य मुदितमनसोपाध्यायेनाऽचिन्ति-'अहो!! नम्रताऽनयोः, अहो !! वचनकौशलम्, सर्वथा विद्यादानस्य योग्यावेतौ कुमारको, तगुक्तमेतयोः पात्रभूतयोः स्वविद्यानिक्षेपं विधातुं मम निर्विचारम्, यदि पुनरपात्रं स्यात् ततो विचारोऽपि कर्तु युज्यते, यतोऽप्रशान्ततया योग्यताविकलो न शाखमवधारयति, विपरीतं वा धारयति, ततश्च विपरीताऽवधारणात् [शास्त्रोक्तम् अवधारयति, ] अनुतिष्ठति विपरीतमनुष्ठानम्, विपरीताऽनुष्ठानान् महानपायस्तस्य पर्यवस्यति, स च शास्त्रसद्भावपरप्रतिपादयितृकृत एवेति / तथा चोक्तम् अप्रशान्तमतो शास्त्रसद्भावप्रतिपादनम् / दोषायाऽभिनवोदीणे शमनीयमिव ज्वरे // 750 // अन्यच-आमे घटे निषिक्तं यथा घटं तबलं विनाशयति इति सिद्धान्तरहस्य-मल्पाधारं विजानीहि // 751 // किंबहुना चिन्तितेन ? ददाम्येताभ्यां स्वां विद्यामद्यप्रभृति' इति चिन्तयता तेन सहर्ष तौ कुमारकावभिधाते-दे पुत्रको! चार्वनुष्ठितं भवद्भ्यां यदिह विद्यार्थ मदन्तिकमायातो, 'तदिदानीमस्मत्पितुरपरोऽयं पिता' इत्येवं गणयन्तौ गृहीतां विश्रब्धं भवन्तौ विद्याम्, न विशूरणीयं (2) शयना-55-सना-ऽऽच्छादनादिना स्वगृह इस मद्गृहेऽपीति // ततः समभिलषितार्थसमाप्तिसमुपातप्रमभरविकसितनयनयुगलौ कुमारकावपि 'यथाऽऽज्ञापयति उपा
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy